________________
४६४
स्पृश्यास्पृश्यत्वमीमांसा
१७ स्पृश्यास्पृश्यत्वमीमांसा। यन्नामधेयश्रवणानुकीर्तनात यत्प्रवणाधत्स्मरणादपि क्वचित् । श्वादोऽपि सधः सवनाय कल्पते
कुतः पुनस्ते भगवन्नदर्शनात् ॥- भागवतम् । अन्नमयादन्नमयमथवा चैतन्यमेवचैतन्यात् । द्विजवर दूरीकर्तु वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥
मनोषापञ्चकम् ॥ नारायणं नमस्कृत्य नरंचैव नरोत्तमम् ।
दैवीं सरस्वतीं चापि शास्त्रं किमपिचिन्तये ॥
अधुना भारतवर्षे चाण्डालादिपदवाच्यत्वेनाभिमता ये जाति विशेषाः सन्ति ते वेदानुसारिभिर्वणः स्पृश्या अस्पृश्या वेति विषये महती विप्रतिपत्तिदरीदृश्यते ॥ अस्पृश्या एव, तेषां सर्वधर्मशास्त्रैः साक्षात् प्रायश्चित्तविधानमुखेन · वा स्पृश्यत्वनिषेधात्-इत्येकः पक्षः। स्पृश्या एव " एकोदेवः सर्वभूतेषु गूढः" इत्याधैकात्म्यप्रतिपादकश्रुतिप्रामाण्यात्," "विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनिचैवश्वपाके च पण्डिताः समदर्शिनः" इति भगवद्वचनाञ्च इत्यपरः पक्षः। एवं विप्रतिपत्तावुपस्थितायामादौतावत् सामान्यतः विप्रतिपत्तिरहस्यं चिन्त्यते। पश्चात् विप्रतिपत्तिपरिहारं विधाय सिद्धान्तं स्थिरीकरिष्यामः ।।
अस्ति किल भारतवर्षे पण्डितपुरी नाम नगरी । तत्र कोऽपि विकल्पनाथो नाम मीमांसापारावारपारीण आचार्यवरो निवसति । स एकदाऽऽत्मनः सरस्वतीमन्दिराख्ये पुस्तकागारे कानपि ग्रन्थान् पर्यालोचयन् दिवास्वापो निषिद्ध इति जानन्नपि धर्मघशान्मुहुर्तमा निद्रामगमत् । निद्रोपरमे यदा नेत्रे उन्मीलयति; तदा स्थसमीपे बद्धाञ्जलिं किमपि पुरुषमपश्यत् । तेन पुरुषेणाचार्यवरः सप्रश्रयं प्रार्थितः-'भगवन् । अस्मिन् धर्मविषये निर्णय दातुमईसी'ति । एवं कस्मिश्चित् धर्मविषये निवेदिते आचार्यण तप्रनिर्णयो दत्तः। किन्त्वनेन तस्य संशयो द्विगुणीभूतः । तेन