________________
, गेयाष्टक
अनुभव विनय ! सदा मुखमनुभव, औदासीन्यमुदारं रे । कुशलसमागममागमसारं, कामितफलमन्दार' रे ॥ अनु० ॥ १ ॥ परिहर परचिन्तापरिवार, चिन्तय निजमविकाररे । वदति कोऽपि चिनोति करीर, चिनुतेऽन्यः सहकार रे ॥ अनु० ॥ २ ॥ योऽपि न सहते हितमुपदेशं, तदुपरि मा कुरु कोपं रे । निप्फलया किं परजनतप्त्या ? कुरुषे निजसुखलोपं रे ॥ अनु० ॥ ३ ॥ सूत्रमपास्य जडा भापन्ते, केचन मतमुत्सूत्र' रे । किं कुर्मस्ते परिहतपयसो, यदि 'पीयन्ते मूत्र रे ॥ अनु० ॥ ४ ॥ . पश्यसि किं न मनःपरिणाम, निजनिजगत्यनुसार रे ।। येन जनेन यथा भवितव्यं, तद्भवता दुर्वार रे ॥ अनु० ॥ ५ ॥ रमय हृदा हृदयंगमसमतां, संवृणु मायाजालं रे । वृथा वहसि पुद्गलपरवशतामायुः परिमितकालं रे ॥ अनु० ॥ ६ ॥ अनुपमतीर्थमिदं स्मर चेतनमन्तःस्थिरमभिरामं रे ।। चिरं जीव विशदपरिणामं, लभसे सुखमविरामं रे ॥ अनु० ॥ ७ ॥ परब्रह्मपरिणामनिदानं, स्फुटकेवलविज्ञानं रे । घिरचय विनय ! विवेचितज्ञानं, शान्तसुधारसपानं रे ॥ अनु० ॥ ८ ॥
* રાગ :–આ અષ્ટકના ગગની દેરી પ્રસિદ્ધ છે “આજ ગયા'તા અમે સમવસરણમા” એ જાણીતી ટાળમાં ચાલે છે પ્રતિમા એને પ્રભાતિગળ લખે છે “આદર છવ! સમા ગુણ આદરની દેવી જણાવે છે
१, ५त. पिवन्ति