SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक' . जगदुपकारम् । विनय ! विभावय गुणपरितोपं, निजसुकृताप्तवरेषु परेषु । परिहर दूरं मत्सरदोप, विनय ! धिभावय गुणपरितोपम् ॥ विनय० ॥१॥ दिष्टयायं वितरति बहुदानं, वरमयमिह लभते वहुमानम् । । । किमिति न विमृशसि परभागं, यद्विभजसि तत्सुकृतविभागम् ॥विनय० ॥२॥', येपां मन इह विगतविकारं, ये विदधति भुवि जगदुपकारम् । तेपां वयमुचिताचरिताना, नाम जपामो वारंवारम् ॥विनय० ॥३॥ अहह तितिक्षागुणमसमानं, पश्यत भगवति मुक्तिनिदानम् । . येन रुपा सह लसदभिमानं, झटिति विघटते 'कर्मवितानम् ॥ विनय० ॥ ४ ॥ अदधुः केचन शीलमुदारं, गृहिणोऽपि परिहतपरदारम् । यश इह सम्प्रत्यपि शुचि तेपां, विलसति फलिताफलसहकारम् ॥ विनय० ॥५॥ या वनिता अपि यशसा साकं, कुलयुगलं विदधति सुपताकम् ।। तासां सुचरितसञ्चितराकं, दर्शनमपि कृतसुकृतविपाकम् ॥ विनय० ॥६॥ तात्विकसात्विकसुजनवतंसाः, केचन युक्तिविवेचनहंसाः । । . . अलमकृपत किल भुवनाभोगं, स्मरणममीपां कृतशुभयोगम् ॥ विनय० ॥७॥ . इति परगुणपरिभावनसारं, सफलय सततं निजमवतारम् । कुरु मुविहितगुणनिधिगुणगानं, विरचय शान्तसुधारसपानम् ॥विनय० ॥ ८॥ રાગ : “ભલા સીઆ-ગારી શોઝીઆ'ના ગગમાં ચાલે છે–પાચમી ભાવનાનો રાગ જણાવ્યો હતો તેને મળતે આ પ્રમોદભાવનાનો પગ છે એની પ્રતમાં જણાવે છે કે ટેડી રાગમાં ગણાય છે ઋષ ભકી મેરે મન ભક્તિ વી” એ દેરી એમ ત્યા જણાવેલ છે १ पातर निदान
SR No.011601
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year
Total Pages608
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy