________________
गेयाष्टक
विनय ! विचिन्तय मित्रतां त्रिजगति जनतामु । कर्मविचित्रतया गतिं विविधां गमितासु ॥ विनय !० ॥ १ ॥ सर्वे ते प्रियवान्धवा न हि रिपुरिह कोऽपि । मा कुरु कलिकलुपं मनो निजसुकृतविलोपि ॥ विनय !० ॥ २ ॥ यदि कोपं कुरुते परो निजकर्मवशेन । अपि भवता किं भूयते हृदि रोपवशेन ? ॥ विनय !० ॥ ३ ॥ अनुचितमिह कलहं सता त्यज समरसमीन ।। भन विवेककलहंसतां गुणपरिचयपीन ॥ विनय !० ॥ ४ ॥ शत्रजनाः मुखिनः समे मत्सरमपहाय । सन्तु गन्तुमनसोऽप्यमी शिवसौख्यगृहाय ॥ विनय !० ॥ ५ ॥ सकृदपि यदि समतालवं हृदयेन लिहन्ति । विदितरसास्तत दह रति स्वत एव वहन्ति ॥ विनय !० ॥ ६ ॥ किमुत कुमतमदमूर्छिता दुरितेषु पतन्ति । जिनवचनानि कथं हहा न रसादुपयन्ति ॥ विनय !० ॥ ७ ॥ परमात्मनि विमलात्मनां परिणम्य वसन्तु । विनय ! समामृतपानतो जनता विलसन्तु ॥ विनय !० ॥ ८ ॥
1 * રાગ, વિમલાચલ નિતુ વદીએ એ ઉપાધ્યાયજીના સુપ્રસિદ્ધ સ્તવનના લયમાં ચાલે છે એની પ્રતમ રાગ માટે લખે છે કે “શાખરાગેણ ગીતે “રે વ! જિન ધર્મ કીજીએ એ દેશી”