________________
गेयाष्टक
बुध्यतां बुध्यतां बोधिरतिदुर्लभा, जलधिजलपतितमुररत्नयुक्त्या । सम्यगाराध्यतां स्वहितमिह साध्यतां, वाव्यतामधरगतिरात्मशक्त्या ।। वुव्यतां ॥ १ ॥ चक्रिभोज्यादिग्वि नरभवो दुर्लभो, भ्राश्यतां घोरसंसारकक्षे । वहुनिगोदादिकायस्थितिव्यायते, मोहमिथ्वात्वमुखचोरलक्षे ॥बुध्यतां ॥२॥ लब्ध इह नरभवोऽनार्यदेशेषु यः, स भवति प्रत्युतानर्थकारी । जीवहिंसादिपापाथवव्यसनिनां, माघवत्यादिमार्गानुसारी ॥वुध्यतां ॥३॥ . आर्यदेशस्पृशामपि मुकुलजन्मनां, दुर्लभा विविदिपा धर्मतत्त्वे । रतपरिग्रहभयाहारसंज्ञातिमिर्हन्त मग्नं जगदुःस्थितत्वे ॥बुध्यतां० ॥ ४ ॥ विविदिपायामपि श्रवणमतिदुर्लभं, धर्मशास्त्रस्य गुरुसन्निधाने । वितथविकथादितत्तद्रसावेशतो, विविधविक्षेपमलिनेऽवधाने ॥बुध्यतां० ॥५॥ धर्ममाकर्ण्य सम्बुध्य तत्रोद्यम, कुर्वतो वैरिवर्गान्तरङ्गः । रागद्वेपश्रमालस्यनिद्रादिको, वाधते निहतसुकृतप्रसद्गः ॥बुध्यतां ॥६॥ चतुरशीतावहो योनिलक्षेष्वियं, क्व त्वयाकर्णिता धर्मवार्ता ।। प्रायशो जगति जनता मिथो विवदते, ऋद्धिरसशातगुरुगौरवार्ता । वुध्यतां० ॥७॥ एवमतिदुर्लभात् प्राप्य दुर्लभतमं, वोधिरत्नं सकलगुणनिधानम् । कुरु गुरुप्राज्यविनयप्रसादोदितं, शान्तरससरसपीयूपपानम् ॥ बुध्यतां० ॥ ८ ॥
* રાગ–‘તાર હે તાર પ્રભુ મુજ સેવક ભણી' એ સુપ્રસિદ્ધ શ્રી વીરસ્તવનના લયમાં ચાલશે પ્રતોમાં એને ધનાશ્રી રાગ જણાવે છે “ધાર તરવાની સેહલી દેહલી” એ આન દઘનજીના ચૌદમા જિનના સ્તવનના રાગમાં પણ ચાલશે