________________
गेयाष्टक
विनय ! विभावय शावत, हृदि लोकाकाशम् । सकलचराचरधारणे, परिणमदवकाशम्' ॥ विनय ! ॥ १ ॥ लसदलोकपरिवेष्टित गणनातिगमानम् । पञ्चभिरपि धर्मादिभिः, सुघटितसीमानम् ॥ विनय ! ॥ २ ॥ समवघातसमये जिनैः, परिपूरितदेहम् । असुमदणुकविविधक्रिया-गुणगौरवगेहम् ॥ ॥ विनय ! ॥ ३ ॥ एकरूपमपि पुद्गलैः, कृतविविधविवर्तम् ।। काञ्चनशैलशिखरोम्नत, क्वचिढवनतगर्तम् ॥ विनय ! ॥ ४ ॥ क्वचन तविपमणिमन्दिरै-रुदितोदितरूपम् । घोरतिमिरनरकादिमिः, क्वचनातिविरूपम् ॥ विनय ! ॥ ५ ॥ क्वचिदुत्सवमयमुज्ज्वल, जयमद्गलनादम् । क्वचिदमन्दहाहारव, पृथुशोकविपादम् ॥ विनय ! ॥ ६ ॥ वहुपरिचितमनन्तशो, निखिलैरपि सत्त्वैः । जन्ममरणपरिवर्तिभिः, कृतमुक्तममत्वैः ॥ विनय ! ॥ ७ ॥ इह पर्यटनपराङ्मुखाः, प्रणमत भगवन्तम् । शान्तसुधारसपानतो, धृतविनयमवन्तम् ॥ विनय ! ॥ ८ ॥
* રાગ:–આ અષ્ટક “ડધા ફળ છે ક્રોધના” એ સજઝાયના લયમા બરાબર ચાલશે એનો રાગ કાફી છે એને મથાળે જણાવે છે કે “આજ સખી મનમોહના' એ એની દેશી છે રાગ સરળ પણ મસ્ત છે