________________
गेयाष्टक'
(ध्रुवपदं) पालय पालय रे पालय मां जिनधर्म ! मंगलकमलाकेलिनिकेतन, करुणाकेतन धीर । शिवमुखसाधन भवभयवाधन जगदाधार गंभीर ॥
___ पालय पालय रे० सिञ्चति पयसा जलधरपटली, भूतलममृतमयेन । सूर्याचन्द्रमसावुढयेते, तव महिमातिगयेन ॥ पालय० १ निरालम्बमियमसदाधारा, तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तम्भ, तं सेवे विनयेन ॥ पालय० २ दानशीलशुभभावतपोमुख-चरिताथी कृतलोकः । शरणस्मरणकृतामिह भविनां, दूरीकृतभयशोकः ॥ पालय० ३ क्षमासत्यसन्तोपदयादिक-मुभगसकलपरिवारः । देवासुरनरपूजितशासन-कृतवहुभवपरिहारः ॥ पालय० ४ वन्धुरवन्धुजनस्य दिवानिश-मसहायस्य सहायः ।। भ्राम्यति भीमे भवगहनेऽङ्गी, त्वां वान्धवमपहाय ॥ पालय० ५ द्रगति गहनं जलति कृशानुः, स्थलति जलधिरचिरेण । तव कृपयाखिलकामितसिद्धि-बहुना कि तु परेण ? ॥ पालय० ६ इह यच्छसि मुखमुदितदशाग, प्रेत्येन्द्रादिपदानि ।। क्रमतो ज्ञानादीनि च वितरसि, निःश्रेयससुखदानि ॥ पालय० ७ सर्वतन्त्रनवनीत सनातन, सिद्धिसदनसोपान ।
जय जय विनयवता प्रतिलम्भित-शान्तसुधारसपान ॥ पालय० ८ રાગ : આ ભાવનાનો લય બહુ સુંદર છે. “મોહન મુજરો લેજો રાજ, તુમ મેવામા રહીશું', એ तवनता पम यादगे भान 'पालय पालय रे' में ५ मोसता anो ३५। ५
બહુ મજા આવે એ લય છે