________________
गेयाष्टक
परिहरणीया रे, सुकृतिमिराश्रवा, हृदि समतामवधाय । प्रभवन्त्येते रे, भृशमुत्सृङ्खला, विभुगुणविभववधाय ॥परि० ॥ १ ॥ कुगुरुनियुक्ता रे, कुमतिपरिप्लुताः शिवपुरपथमपहाय । प्रयतन्तेऽमी रे क्रियया दुष्टया, प्रत्युत शिवविरहाय ॥ परि० ॥२ ।। अविरतचित्ता रे, विषयवशीकृता, विपढन्ते विततानि । इहपरलोके रे, कर्मविपाकजान्यविरलदुःखशतानि ॥परि० ॥३॥ करिझखमधुपा रे, शलभमृगादयो, विषयविनोदरसेन । हन्त लभन्ते रे, विविधा वेदना, वत परिणतिविरसेन ॥ परि० ॥ ४ ॥ उदितकपाया रे, विपयवशीकृता, यान्ति महानरकेषु । परिवर्तन्ते रे, नियतमनन्तशो, जन्मजरामरणेषु ॥ परि० ॥५॥ मनसा वाचा रे, वपुपा चञ्चला, दुर्जयदुरितभरेण ।। उपलिप्यन्ते रे, तत आश्रवजये, यततां कृतमपरेण ॥ परि० ॥६॥ शुद्धा योगा रे, यदपि यतात्मनां, स्रवन्ते शुभकर्माणि । काञ्चननिगडांस्तान्यपि जानीयात्, इतनिर्वृतिशर्माणि ॥ परि० ॥७॥ मोदस्वैवं रे, साश्रवपाप्मनां, रोधे घियमाधाय । . शान्तसुधारसपानमनारतं, विनय विधाय विधाय ॥परि० ॥८॥
* એને મારૂ રાગ છે “ત્રી ભાવના એણી પરે ભાવીએ રે–એ રાગમા જરા કહેકે ફેવો પડશે
ત્રીજી ભાવના રે” એમ બોલીએ તો આ અષ્ટકનો રાગ આવી જશે ૨૮