SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ પ્રકરણ સાતમું આથવભાવના भुजंगप्रयातम् यथा सर्वतो निरैरापतद्भिः, प्रपूर्यत सद्यः पयोभिस्तटाकः । तथैवाश्रवैः कर्मभिः सम्भृतोऽङ्गी, भवेदव्याकुलश्चञ्चलः पड्किलश्च ॥ क १॥ शार्दूलविक्रीडितम् यावत्किञ्चिदिवानुभूय तरसा कर्मेह निर्जीयते, ___तावच्चाश्रवशत्रवोऽनुसमय सिञ्चन्ति भूयोऽपि तत् । हा कष्ट कथमाश्रवप्रतिभटाः शक्या निरोद्धं मया, संसारादतिभीपणान्मम हहा मुक्तिः कथ भाविनी ॥ख २॥ प्रहर्षणी मिथ्यात्वाविरतिकपाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः । कर्माणि प्रतिसमय स्फुटरमीभिर्वधन्तो भ्रमवशतो भ्रमन्ति जीवाः ।। ग ३ ॥ रथोद्धता इन्द्रियाव्रतकपाययोगजाः पञ्च पन्च चतुरन्वितास्त्रयः । पञ्चविंशतिरसत्क्रिया इति नेत्रवेदपरिसंख्ययाप्यमी ॥ ४॥ इन्द्रवज्रा इत्याश्रवाणामधिगम्य तत्त्वं निश्चित्य सत्त्वं श्रुतिसन्निधानात् । एपां निरोधे विगलद्विरोधे सर्वात्मना द्राग्यतितव्यमात्मन् ! ॥ ५॥* * આ શ્લેકના કઠણ શબ્દની નોટ ગેયાષ્ટક પછી આપેલી છે
SR No.011601
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year
Total Pages608
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy