SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक* । एकत्वभावना . विनय चिन्तय वस्तुतत्त्वं जगति निजमिह कस्य किम् । भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम् ॥ विनय० १ ।। एक उत्पद्यते तनुमानेक एव विपद्यते । एक एव हि कर्म चिनुते, से एककः फलमश्नुते ॥ विनय २ ॥ यस्य यावान् पंरपरिग्रहो, विविधममतावीवधः । । जलघिविनिहितपोतयुक्त्या, पतति तावदसावधः ॥ विनय० ३.॥ '. .. : स्वस्वभावं मद्यमुदितो, भुवि विलुप्य विचेष्टते । ' दृश्यतां परभावघटनात्, पतति विलुठति जृम्भते ॥ विनय० ४ ॥ पश्य काञ्चनमितरपुद्गलमिलितमञ्चति कां दशाम् । केवलस्य तु तस्य रूपं विदितमेव भवादृशाम् ॥ विनय० ५ ॥ एवमात्मनि कर्मवशतो, भवति रूपमनेकधा । . . कममलरहिते तु भगवति भासते काञ्चनविधा ॥ विनय० ६ ॥ , ।। ज्ञानदर्शनचरणपर्यवपरिवृतः परमेश्वरः' ।' एक एवानुभवसदने, स रमतामविनश्वरः ॥ विनय० ७ ॥ रुचिरसमतामृतरसं क्षणमुदितमास्वादय मुदा । . ___ विनय ! विषयातीतमुखरसरतिरुदञ्चतु ते सदा ॥ विनय० ८ ॥ * આ પદ્યનો રાગ બહુ પ્રચલિત છે “હે સુણ આતમા ! મત પડ મેહપિજર માંહી માયાજાળ રે' એમ જગ ફેર કરવાથી બરાબર લય આવે છે “રામ રાજા રામ પજા, રામ શેઠ રાહુકાર હે” – એ ચાલુ લય એને બરાબર બંધ બેસે છે
SR No.011601
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherMahavir Jain Vidyalay
Publication Year
Total Pages608
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy