________________
गेयाष्टक
संसारभावना कलय संसारमतिदारुणं, जन्ममरणादिभयभीत रे । मोहरिपुणेह सगलग्रहं, प्रतिपदं विपदमुप नीत रे ॥ कलय० ॥ १ ॥ स्वजनतनयादिपरिचयगुणैरिह मुधा वध्यसे मृढ रे । प्रतिपदं नवनवैरनुभवैः, परिभदैरसकृदुपगूढ रे ॥ कलय० ॥ २ ॥ घटयसि वचन मदमुन्नतेः, कचिदहो हीनतादीन रे । प्रतिभवं रूपमपरापरं, वहमि वत कर्मणाधीन रे ॥ कलय० ॥ ३ ॥ जातु शैशवदशापरवशो, जातु तारुण्यमदमत्त रे । जातु दुर्जयजराजर्जरो, जातु पितृपतिकरायत्त रे । कलय० ॥ ४ ॥ व्रजति तनयोऽपि ननु जनकतां, तनयता व्रजति पुनरेप रे । भावयन्विकृतिमिति भवगतेस्त्यजतमा नृभवशुभशेप रे ॥ कलय० ॥ ५ ॥ यत्र दुःखातिगददवलबैरनुदिनं दह्यसे जीव रे । हन्त तत्रैव रज्यसि चिरं, मोहमदिरामदक्षीव रे ॥ कलय० ॥ ६ ॥ दर्शयन किमपि सुखवैभवं, संहरंस्तदथ सहसैव रे । विप्रलम्भयति शिशुमिव जनं, कालवटुकोऽयमत्रैव रे ॥ कलय० ॥ ७ ॥ मकलसंसारभयभेदकं, जिनवचो मनसि निवधान रे । विनय परिणमय निःश्रेयसं, विहितगमरसमधापान रे ॥ कलय० ॥ ८ ॥
* આ અષ્ટક ગાવામાં આનંદવનજીને ગોળમાં સ્તવનનો લય “શાતિજિન એક મુજ વિનતિ’ ચાલગે એ
લયમાં અતરાત્મા વિધિ આનદ અનુભવને અન્ય લય મુમુસુ-જિજ્ઞાસુએ શેાધી લેવા.