________________
गेयाष्टक
( अशरणभावना )
स्वजनजनो वहुधा हितकामं, प्रीतिरसैरभिरामम् । मरणदशावशमुपगतवन्तं, रक्षति कोऽपि न सन्तम् ॥ विनय ! विधीयतां रे, श्रीजिनधर्मः शरणम् । अनुसन्धीयतां रे, शुचितरचरणस्मरणम्
तुरगरथेभनरावृतिकलितं दधतं बलमस्खलितम् । हरति यमो नरपतिमपि दीनं, मैनिक व लघुमीनम् प्रविशति वज्रमये यदि सदने, तृणमय घटयति वदने । तदपि न मुञ्चति हतसमवती', निर्दयपौरुपनती विद्यामन्त्रमहौषधिसेवा, सृजतु वशीकृतदेवाम् । रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् वपुपि चिरं निरुणद्धि समीरं पतति जलधिपरतीरम् । शिरसि गिरेरधिरोहति तरसा, तदपि स जीर्यति जरसा सृजतीमसितशिरोरुद्द ललितं मनुजशिरः सितपलितम् । को विदधानां भूवनमरसं, प्रभवति रोद्धुं जरसम्
उद्यत उग्ररुजा जनकायः, कः स्यात्तत्र सहायः । एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम् शरणमेकमनुसर चतुर, परिहर ममतासङ्गम् । विनय ! रचय शिवसौख्यनिधानं शान्तनुधारसपानम्
॥ १ ॥ '
॥ वि० ॥ २ ॥ -
॥ वि० ॥ ३ ॥
॥ वि० ॥ ४ ॥
॥ वि० ॥ ५ ॥
॥ वि० ॥ ६ ॥
॥ वि० ॥ ७ ॥
॥ वि० ॥ ८ ॥