________________
गेयाष्टक
अनित्यभावना
' . मूढ :मुद्यसि मुघा मूढ मुद्यसि मुधा, विभवमनुचिन्त्य हृदि सपरिवारम् ।
शशिरसि नीरमिव गलदनिलकम्पितं, विनय जानीहि जीवितमसारम्।। मूढ०॥ ध्रुवपदं ॥ पश्य भरेमिदं विषयसुखसोहदं, पश्यतामेव नश्यति सहासम् । एतदनुहरति संसाररूपं रयाज्ज्वलज्जलदवालिकारुचिविलासम् . ॥ मूढ० ॥ १ ॥ 'इन्त दृतयौवनं पुच्छभिव शौवनं, कुटिलमति तदपि लघुदृष्टनष्टम् । । तेन वत परवशा परवशा हतधियः, कटुकमिह कि न कलयन्ति कष्टम् ? ।। मूढ० ॥ २ ॥ यदपि पिण्याकतामङ्गमिदमुपगतं, भुवनदुर्जयजरापीतसारम् । तदपि गतलज्जमुमति मनो नागिना, वितथमतिकृथितमन्मथविकारम् ॥ मूढ० ॥३॥ मुखमनुत्तरमुरावधि यदतिमेदुरं, कालतस्तदपि कलयति बिरामम् । कतरदितरत्तदा वस्तु सांसारिकं, स्थिरतरं भवति चिन्तय निकामम् ॥ मूढ० ॥४॥ 'यः समं क्रीडिता ये च भृशमीडिता, यैः समाकृष्महि प्रीतिवादम् । । तान् जनान् वीक्ष्य वत भस्मभूयं गतान् , निर्विशङ्काः स्म इति धिक् प्रमादम् ।।मूढ०॥५॥ असकृदुन्मिष्य निमिपन्ति सिन्धुर्मिवच्चेतनाचेतनाः सर्वभावाः । इन्द्रजालोपमाः स्वजनजनसङ्गमास्तेपु रज्यन्ति मूढस्वभावाः । ॥ मूढ०॥ ६ ॥ कवलंयन्नविरतं जड्गमाजङ्गम, जगदहो नैव तृप्यति कृतान्तः । मुखगतान् खादतस्तस्य करतलगतैर्न कथमुपलप्यसेऽस्माभिरन्तः . ॥ मूढ० ॥७॥ 'नित्यमेकं चिदानन्दमयमात्मनो, रूपमभिरूप्य सुखमनुभवेयम् । प्रशमरसनवमुधापानविनयोत्सवो, भवतु सततं सताभिह भवेऽयम् ॥ मूढ० ॥८॥