________________
5
૫
( १७३ )
સદાચારનું હે
धर्मव्यवहारकर्माणि सेवस्त्र स्वाधिकारतः । सा व्यवहारrयं सुञ्च धर्मतीर्थस्य जीवकम् ॥ २०९ ॥ वर्णित धर्मसंस्कारा धर्मशास्त्रेषु ये शुभाः । धर्मव्यवहारदाढर्या कर्तव्याः स्वाधिकारतः ॥ २९० ॥ यतितव्यं सदा सद्भिः साधर्म्यभक्तिकर्मसु । लोकानां सुखदं कर्म कर्तव्यं स्वात्मशक्तितः ॥ २१९ ॥ कुर्वन्तः कर्म केऽप्यत्र निष्कर्माणः स्वचितः । निष्क्रियास्ते क्रियावन्तो रागादिभावसंयुताः ॥ २१२ ॥ मार्गानुसारिधर्मस्य द्योतकानि विशेषतः । सेव्यानि धर्मकर्माणि मोक्षसाधकसानवैः ॥ २१३ ॥ मैत्र्यादिभाववृद्धयर्थं विवतश्रत्रियोगतः । विश्वस्मिन् कर्म कर्तव्यं लोकानां पूज्यसज्जनैः ॥ २१४ ॥ सामाजिक हितार्थाय यानि कर्माणि सन्ति वै । सर्वस्वार्थान् परित्यज्य तानि सव्यानि मानवैः ॥ २१५ ॥ मह्यां शान्तिप्रचारार्थं देया सात्विकदेशना । सद्भिः शान्तिप्रवन्वैश्च स्थातव्यं शान्तिकर्मसु ॥ २१६ ॥ दोषयुक्तान् जनान् दृष्ट्वा कर्तव्या करुणा सदा । तेषु गुणप्रचारार्थं वर्तितव्यं स्वशक्तितः ॥ २१७ ॥ आविर्भूता गुणा यस्य क्षमाचा हृदये शुभाः । गुणीभूतो जनः सैव प्रचारयति सद्गुणान् ॥ २१८ ॥ धैर्यौदार्यगुणादीनां प्रादुर्भावो यतो भवेत् । कर्तव्यं तदनुष्ठानं गुणानुरागिभिः शुभम् ॥ २१९ ॥