________________
Vada ] .Ganadharavada
: 41 :. अत्राह कश्चित्-ननु यदि यद् निषिध्यते तदस्ति, तर्हि मत्रिलोकेश्वरताऽप्यस्ति, युष्मदादिभिर्निषिध्यमानत्वात् । तथा चतुर्णां समवायादिप्रतिषेधानां पञ्चमोऽपि प्रतिषेधप्रकारोऽस्ति, त्वयैव निषिध्यमानत्वात् । तदयुक्तम् , त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते, यथा घटप्रमाणत्वं मुक्तानाम् , न तु सर्वथैवेश्वरता, स्वशिष्यादीश्वरतायास्तवापि विद्यमानत्वात् । तथा, प्रतिषेधस्यापि पञ्चसङ्ख्याविशिष्टत्वमपाक्रियते, न तु सर्वथा प्रतिषेधस्याभावः, चतु:सङ्खयाविशिष्टस्य तस्य सद्भावात् । ननु सर्वमप्यसम्बद्धमिदम् , तथाहिमत्रिलोकेश्वरत्वं तावदसदेव निषिध्यते, प्रतिषेधस्यापि पञ्चसङ्ख्याविनिष्टत्वम-. विद्यमानमेव निवार्यते, तथा, संयोग-समवाय-सामान्य-विशेषाणामपि गृहदेवदत्त-खरविषाणादिष्वसतामेव प्रतिषेधः, इत्यतो “यनिषिध्यते तदस्त्येव" . इत्येतत् कथं न प्लवते ? इत्या शङ्कयाह-" संजोगाइचउकं पीत्यादि "। इदमुक्तं भवति-देवदत्तादीनां संयोगादयो गृहादिष्वेवासन्तो निषिध्यन्ते, अर्थान्तरे तु तेषां ते विद्यन्त एव; तथाहि-गृहेणैव सह देवदत्तस्य संयोगो न विद्यते, अर्थान्तरेण तु क्षेत्र-हट्ट-ग्रामादिना सह तस्यासौ समस्त्येव, गृहस्यापि देवदत्तेन सह संयोगो नास्ति, खट्वादिना तु सह तस्यासौ विद्यत एव, एवं विषाणस्यापि खर एव समवायो नास्ति, गवादावस्त्येव; सामान्यमपि द्वितीयचन्द्राभावाचन्द्र एव नास्ति, अर्थान्तरे तु घटगवादावस्त्येव; घटप्रमाणत्वमपि मुक्तासु नास्ति, अर्थान्तरे तु कूष्माण्डादावस्त्येव । त्रिलोकेश्वरताऽपि भवत एव नास्ति, तीर्थकरादावस्त्येव, पञ्चसङ्ख्याविशिष्टत्वमपि प्रतिषेधे नास्ति, अर्थान्तरे त्वनुत्तरविमानादावस्त्येव । इत्यनया विवक्षया ब्रूमः-- " यद् निषिध्यते तत् सामान्येनास्त्येव, न त्वेवं प्रतिजानीमहे "-"यद् यत्र निषिध्यते तत् तत्रैवास्ति " इति येन व्यभिचारः स्यात् ॥
वयमपि शरीरे जीवं निषेधयामः, नान्यत्रेति चेत् । साधूक्तम् , अस्मत् समीहितस्य सिद्धत्वात् , जीवसिद्ध्यर्थमेव हि यतामहे वयम् , स चेत् सिद्धः, तहि तत्सिद्ध्यन्यथानुपपत्तेरेव तदाश्रयः सेत्स्यति, किं तया चिन्तया ? । न च शरीरमन्तरेण जीवस्याश्रयान्तरमुपपद्यते, तत्रैव तदवस्थानलिङ्गोपलब्धेः। न च वक्तव्यम्-शरीरमेव जीवः, “जीवति", " मृतः", "मूर्च्छितः” इत्यादि व्यवस्थाऽनुपपत्तेः इत्यादेरभिधास्यमानत्वादिति ॥ २६ ॥ १५७४ ॥