________________
•: 40 :: . Jinabhadra Gaņi's
[The first This hetu is anaikāntika. असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्धं । संजोगाइचउकं पि सिद्धमत्थन्तरे निययं ॥ २६ ॥ (१५७४) Asaö natthi niseho sańjogāïpadisehaö siddham Sanjogaicaukkam pi siddham atthantare niyajam ॥ 26 ( 1574) [ असतो नास्ति निषेधः संयोगादिप्रतिषेधतः सिद्धम् ।
संयोगादिचतुष्कमपि सिद्धमर्थान्तरे नियतम् ॥ २६ ॥ (१५७४) Asato nāsti nişedhaḥ samyogādipratişedhatah siddham | Samyogadicatuskamapi siddham arthantare niyatam ॥ 26 (1514)]
Trans.-26. It is proved that there is no negation in the case of a non-existent object owing to the pratişedha of samyoga (connection) etc., Even the quarter union consisting of samyoga, etc., is certainly proved ( to be existing ) elsewhere. ( 1574 )
टीका-असतोऽविद्यमानस्य नास्ति न सम्भवत्येव निषेध इति सिद्धम् । कुतः ? इत्याह-संयोगादि प्रतिषेधात् , आदि शब्दात् , समवाय-सामान्य-विशेषपरिग्रहः । एतदुक्तं भवति-इह यत्किश्चित् क्वचिद् देवदत्तादिकं निषिध्यते तस्यान्यत्र सत एव विवक्षितस्थाने कस्मिंश्चित् संयोग-समवाय-सामान्यविशेषलक्षणं चतुष्ठ्यमेव निषिध्यते, न तु सर्वथैव देवदत्तादेरभाव प्रतिपाद्यते । तत्र " नास्ति गृहे देवदत्तः" इत्यादिषु गृह-देवदत्तादीनां सतामेव संयोग मात्रं निषिध्यते, न तु, तेषां सर्वथैवास्तित्वमपाक्रियते । तथा, "नास्ति खरविषाणम्" इत्यादिषु खर-विषाणादीनां सतामेव समवायमानं निराक्रियते । तथा "नास्त्यन्यश्चंद्रमाः" इत्यादिषु विद्यमानस्यैव चन्द्रमसोऽन्यचन्द्रनिषेधाचन्द्रसामान्यमानं निषिध्यते, न तु सर्वथा चन्द्राभावः प्रतिपाद्यते । तथा "न सन्ति घटप्रमाणा मुक्ताः" इत्यादिषु घटप्रमाणनाममात्ररूपोविशेषो मुक्तानां निषिध्यते, न तु मुक्ताऽभावः ख्याप्यत इति । एवं च सति " नास्त्यात्मा" इत्यत्र विद्यमानस्यैवात्मनो यत्र वचन येन केनाचित् सह संयोगमात्रेण त्वया निषेद्धव्यम् ; यथा “ नास्त्यात्मा वपुसि" इत्यादि न तु सर्वथाऽऽत्मनः सत्त्वमिति ।