________________
« Graņi's.
:: 38 :
Jinabhadra Gani's . [ The first Astya jīva vipaksaḥ pratişedhất ghato' ghatasyeva i Nasti ghata itiva jiastitvaparo nāsti sabdo'yam ॥ 25 ( 1573)]
Trans.-25 Just as there is a ghata as opposed to aghata, so there is an object, viz., the soul, a vipaksa ( the opposite) of an inanimate object ! owing to denial. This sentence, viz., it does not exist' establishes the existence of the soul, as does the sentence, viz., ' there is no ghata' ( establish its existence ). ( 1573)
टीका-अत्र प्रयोगः-प्रतिपक्षवानयमजीवः, अत्र व्युत्पत्तिमच्छुद्धपदप्रतिषेधात् , यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् दृष्टः, यथाऽघटो घटप्रतिपक्षवान् , अत्र ह्यघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिषेधः, अतोऽवश्यं घटलक्षणेन प्रतिपक्षण भवितव्यम् । यस्तु न प्रतिपक्षवान् न तत्र शुद्धस्य व्युत्पत्तिमतश्च पदस्य प्रतिषेधः, यथाऽखरविषाणम्, अडित्थ इति । अखरविषाणमित्यत्र खरविषाणलक्षणस्याशुद्धस्य सामासिकपदस्य प्रतिषेध इति, अतोत्र खरस्य विषाणं खरविषाणमित्यादिव्युत्पत्तिमत्त्वे सत्यपि खरविषाणलक्षणो विपक्षो नास्ति । अडित्थ इत्यत्र तु व्युत्पत्तिरहितस्य डित्थपदस्य प्रतिषेधः, इति समासरहितत्वेन शुद्धत्वे सत्यपि नावश्यमवस्थितो डित्थलक्षणः कोऽपि पदार्थो जीववद् विपक्षभूतोऽस्तीति ।
"नत्थि घडो तिव" इत्यादि पश्चार्धम् । "नास्यात्मा" इति च योऽयमात्म निषेधध्वनिः स जीवास्तित्वनान्तरीयक एव, यथा “ नास्त्यत्र घटः" इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगः-यस्य निषेधः क्रियमाणो दृश्यते तत् क्वचिदस्त्येव, यथा घटादिकम् ; निषिध्यते च भवता " नास्ति जीवः" इति वचनाजीवः, तस्मादस्त्येवासौ, यच्च सर्वथा नास्ति तस्य निषेधो न दृश्यत एव, यथा खरविषाणकल्पानां पञ्चभूतातिरिक्तभूतानाम् , निषिध्यते च त्वया जीवः, तस्माद् निषेध एवायं तत्सत्वसाधक इति ॥२५॥ १५७३॥
D. C.-The underlying argument is this that since ajtva is a •word of which an etymology exists and is furthermore a suddha pada ( a pure syllable ), it has a pratipaksa ( a rival), viz., jîva. A pratipaksa exists in the case of the negation of