________________
Vada ] Gañadharavada
.: 307:. जं च सिगालो वइ एस जायए वेयविहियमिच्चाई। सग्गीयं जं च फलं तमसंबद्धं सरिसयाए ॥२५२॥ (१८००) Jam ca sigālo vai esa jāyae Veyavihiyamiccāim i Saggîyam jam ca phalam tamasanbaddham sarisayāe 125211 (1800) [ यच्च शृगालो वै एष जायते वेदविहितमित्यादि ।
स्वर्गीयं यच्च फलं तदसंबद्धं सदृशतायाम् ॥ २५२ ॥ (१८००) Yacca śrigālo vai esa jayate Vedavihitamityādi Svargiyam yacca phalam tadasambaddham sadrisatayam ॥ 252॥]
____Trans.-252 Statements of Vedas such as “ Srigalo vai esa jāyate” etc., as well as the reward of heaven laid down by Vedas, will prove inconsistent in ( case of ) sadrisata ( being admitted ). ( 1800)
टीका-यच्च "शृगालो वै एष जायते यः सपुरीषो दह्यते " इत्यादि वेदविहितं तदपि परभवसदृशताग्रहेऽसंबद्धमेव स्यात् , पुरुषादेरमुत्र शृगालतयानुपपत्तेः। तथा, यदपि “ अग्निहोत्रं जुहुयात् स्वर्गकामः" तथा, "अग्निष्टोमेन यमराज्यममिजयति" इत्यादिकं स्वर्गीयफलसूचकत्वात् स्वर्गीय फलं तदप्यसंबद्धं भवेत् , मनुष्यस्य त्वदभिप्रायेण देवत्वानुपपत्तेरिति । "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादीनां च वेदपदानामयमर्थः कोऽपि पुरुषः खल्विह जन्मनि प्रकृत्या भद्रको विनीतः सानुक्रोशोऽमत्सरश्च मनुष्य नाम-गोत्रे कर्मणी बद्धा मृतः सन् पुरुषत्वमश्नुते, न तु नियमेन सर्व एव, अन्यस्यान्यकर्मवशगस्यान्यथाप्युत्पत्तेः । एवं पशवोऽपि केचिद् मायादिदोषवशात् पशुनाम-गोत्रे कर्मणी बद्ध्वा परभवे पशवो जायन्ते, न तु सर्वेऽपि, नियमेन कर्मापेक्षित्वाजीवगतेरिति । तदेवं तस्यापि च्छिन्न: संशयः ॥२५२ ॥ (१८००)॥ ____D. C.-If it is admitted, O blessed Sudharman ! that the next life is exactly similar to this life, the sentences of Vedas such as “ Srigālo vai esa jāyate yah sa-purîşi dahyate” etc., which tell us that, one who is burnt along with foeces becomes fox