________________
•: 170 :
Jinabhadra Gani's abhadra Gani's
[The third प्रतिनियतं बन्धनं निवन्धनमालम्बनं यस्य तदेकवन्धनं ज्ञानम् , अतः कथमशेषवस्तुस्तोमव्यापिनी क्षणिकतामवबुध्येत ? । अपि च, एकालम्बनत्वेऽपि यद्यशेषपदार्थविषयाणामपि ज्ञानानां युगपदुत्पत्तिरिष्यते, आत्मा च तदर्थानुस्मर्ता, तदा स्यादशेषपदार्थक्षणिकतापरिज्ञानम् । न चाशेषार्थग्राहकानेकज्ञानानां युगपदुत्पत्तिरिष्यते ।
किञ्च, तदेकमप्येकार्थविषयमपि च विज्ञानं सर्वपदार्थगतां क्षणिकतामज्ञास्यदेव यद्युत्पत्त्यनन्तरध्वंसि नाभविष्यत् । अविनाशित्वे हि तदवस्थिततयोपविष्टं सदन्यमन्यं चार्थमुत्पत्यनन्तरमुपरमन्तं दृष्ट्वा “ सर्वमेवास्मद्वर्जमस्मत्सजातीयवर्ज च वस्तुक्षणिकमेव " इत्यवबुध्येत, न चैतदस्ति । कुतः ? इत्याह-" एगतेण खणियं चेति" यस्य च बौद्धस्यैकान्तेन क्षणिक क्षणध्वस्येव विज्ञानं, न पुनश्चिरावस्थायि, तस्य कथं सर्ववस्तुगतक्षणिकतापरिज्ञानं स्यात् ।। तस्मादक्षणिकमेव प्रमात ज्ञानमेष्टव्यम् । तच्च गुणत्वादनुरूपं गुणिनमात्मानमन्तरेण न संभवति । अतः सिद्धः शरीराद् व्यतिरिक्त आत्मेति ॥ १२६ (१६७४) ।
__D. C.-According to the theory that there is one and only one continuous range of vijnana to all living beings, the Bauddhas believe that vijnana is eka (one ) and asahaya ( independent) and hence it can never recognize all objects, as all objects would become ksanika according to that theory. Saugatas (Bauddhas ) however try to establish sarvakşanikativijirāna by the help of statements such as “ all that exists is kşanika” and “all samskaras, are kșaniku " etc. Now, jñāna having.all-pervading kşanikatā is not possible at all. For, if one were able to produce such jnana in presence of all objects in the Universe, then only it could be apprehended that all these objects are ksanika. But jñāna could never be produced by means of all those objects in that manner. For, how could ksanikată extended to all objects be recognized when jnana resorts to one and only one alambana ? In such cases, if all jiānas of all objects were taken to have been produced at the same time, and if ātman were accepted as the anusmartā of