________________
Vada ]
Gaṇḍadharavada
• 133 : •
66
कर्मास्तित्वसंशयः। एषां हि वेदपदानामयमर्थस्तव चेतसि विपरिवर्तते - पुरुष आत्मा, एवकारोऽवधारणे, स च पुरुषातिरिक्तस्य कर्म-प्रकृती- श्वरादेः सत्ताव्यवच्छेदार्थः, इदं सर्व — प्रत्यक्षं वर्तमानं चेतनाचेतनस्वरूपम्, “झिं" इति वाक्यालङ्कारे, यद् भूतम् - अतीतम्, यच्च भाव्यं भविष्यद् मुक्तिसंसारावपि स एवेत्यर्थः । उतामृतत्वस्येशान इति । उतशब्दोऽप्यर्थे । अपिशब्दच समुच्चये । अमृतत्वस्य च अमरणभावस्य मोक्षस्येशानः प्रभुरित्यर्थः । यदन्नेनातिरोहतीति । चशब्दस्य लुप्तस्य दर्शनाद् यच्चान्नेन - आहारण, अतिरोहति - अतिशयेन वृद्धिमुपैति । यदेजति - चलति पश्वादि । यद् नैजति - न चलति पर्वतादि । यद् दूरे मेर्वादि । यदु अन्तिके - उशब्दोऽवधारणे, यदन्तिके समीपे तदपि पुरुष एवेत्यर्थः । यदन्तः - मध्ये, अस्य - चेतनाचेतनस्य सर्वस्य यदेव सर्वस्याप्यस्य बाह्यतः, तत् सर्व पुरुष एवेति । अतस्तव्यतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धेयेति ते मतिः । तथा, विज्ञानघन एवैतेभ्यो भूतेभ्यः इत्यादीन्यपि वेदपदानि कर्माभावप्रतिपादकानि मन्यसे त्वम्, अत्राप्येवकारस्य कर्मादिसत्ताव्यवच्छेदपरत्वात् ।
66
"
तदेवमेतेषां " पुरुष एवेदम्" इत्यादीनां " विज्ञानघन " - आदीनां च वेदपदानां नायमर्थो यो भवतश्चेतसि वर्तते, किन्तु तेषां पदानामयं भावार्थ:- " पुरुष एवेदं सर्वम्" इत्यादीनि तावत् पुरुषस्तुतिपराणि जात्यादिमदत्यागहेतोरद्वैतभावनाप्रतिपादकानि च वर्तते, न तु कर्मसत्ताव्यवच्छेदकानि । वेदवाक्यानि हि कानिचिद् विधिवादपराणि, कान्यप्यर्थवादप्रधानानि, अपराणि त्वनुवादपराणि। तत्र “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादीनि विधिवादपराणि । अर्थवादस्तु द्विधा स्तुत्यर्थवादः, निन्दार्थवादश्च । तत्र " पुरुष एवेदं सर्वम् ” इत्यादिकः स्तुत्यर्थवादः तथा तत्र " स सर्वविद् यस्यैषा महिषा भुवि दिव्ये बह्मपुरे ह्येष व्योम्नि आत्मासु प्रतिष्ठितस्तमक्षरं वेदयते यस्तु स सर्वज्ञः सर्ववित् सर्वमेवाविवेश " इति तथा, एकया पूर्णयाहृत्या सर्वान् कामानवाप्नोति " इत्यादिकश्च सर्वोऽपि स्तुत्यर्थवादः । " एकया पूर्णया " इत्यादिविधिवादोऽपि कस्माद् न भवति ? इति चेत् । उच्यते – शेषस्याग्निहोत्राद्यानुष्ठानस्य वैयर्थ्यप्रसङ्गादिति । " एषः वः प्रथमो यज्ञो योऽग्निष्टोमः योऽनेनानिष्ट्वाऽन्येन यजते स गर्तमभ्यपतत् " अत्र
46