________________
The second
:: 132 : . Jinabhadra Gani's
सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते ।। स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ॥ १॥ राजीवकण्टकादीनां वैचित्र्यं कः करोति हि ? । मयुरचन्द्रिकादिर्वा विचित्रः केन निर्मितः ? ॥ २ ॥ कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् ।
यथा कण्टकतैक्ष्ण्यादि तथा चैते सुखादयः ॥ ३ ॥ तदेतद् यथा त्वं नन्यसे गौतम ! तथाऽभ्युपगम्यमानं बहुदोषमेव; तथाहि -यो देहादीनां कर्ता स्वभावोऽभ्युपगम्यते, स किं वस्तुविशेषो वा, अकारणता वा, वस्तुधर्मों वा, ? इति त्रयी गतिः। तत्र न तावद् वस्तुविशेषः, तद्ग्राहकप्रमाणाभावात् । अप्रमाणकस्याभ्युपगमे कर्मापि किं नाभ्युपगम्यते, तस्यापि त्वदभिप्रयेणाप्रमाणकत्वात् । किञ्च, वस्तुविशेषः स स्वभावो मूर्ती वा स्यात् अमूर्ती वा ? । यदि मूर्तः, तर्हि स्वभाव इति नामान्तरेण कमैवोक्तं स्यात् । अथामूर्तः, तर्हि नासौ कस्यापि कर्ता, अमूर्तत्वात् , निरुपकरणत्वाच्च, व्योमवदिति। न च मूर्तस्य शरीरादेः कार्यस्यामूर्त कारणमनुरूपम् , आकाशवदिति । अथाकारणता स्वभाव इष्यते, तत्राप्यभिदध्महे-नन्वेवं सत्यकारणं शरीराद्युत्पद्यत इत्ययमर्थः स्यात् , तथा च सति कारणाभावस्य समानत्वाद् युगपदेवाशेषदेहोत्पादप्रसङ्गः। अपि च, इत्थमहेतुकमाकस्मिकं शरीराद्युत्पद्यत इत्यभ्युपगतं भवेत । एतश्चायुक्तमेव, यतो यदहेतुकमास्मिकं न तदादिमत्प्रतिनियताकारम् , यथाऽभ्रादिविकारः, आदिमत्प्रतिनियताकारं च शरीरादि । तस्माद् नाकस्मिकम् , किन्तु कर्महेतुकमेव । प्रतिनियताकारत्वादेव चोपकरणसहितकनिर्वर्त्यमेव शरीरादिकं घटादिवदिति गम्यत एव । न च गर्भाद्यवस्थासु कर्मणोऽन्यदुपकरणं घटत इत्युक्तमेव । अथ वस्तुनो धर्मः स्वभावोऽभ्युपगम्यते । तथाप्यसौ यद्यात्मधर्मो विज्ञानादिवत् , तर्हि न शरीरादिकारणमसौ, अमूर्तत्वात् , आकाशवत् , इत्यभिहितमेव । अथ मूर्तवस्तुधर्मोऽ सौ, तर्हि सिद्धसाध्यता, कर्मणोऽपि पुद्गलास्तिकायपर्यायविशेषत्वेनास्माभिरप्युपगतत्वादिति ।
अपि च, " पुरुष एवेदं सर्वम् " इत्यादिवेदवाक्यश्रवणाद् भवतः