________________
*: 104 :
Jinabhadra Cani's [The second intentionally performs a deed giving an invisible and undesired reward, therefore, do conclude that all actions (good and bad) invariably give an unseen fruit and that action ( which produces a drsta fruit ) does not invariably produce a visible fruit because of the power of the adrsta ( the evil )unseen of the doer.t ___टीका-यस्मादनिष्टभोगभाजो बहुतरा भूयांसः-अशुभकर्मविपाकजनितदुःखमाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते, शुभकर्मविपाकनिबन्धनसुखानुभवितारस्तु स्वल्पा एवेति भावः। तेन तस्मात् कारणात् सौम्य ! प्रतिपद्यस्व शुभाऽशुभा वा सर्वाऽपि क्रिया, अदृष्टं शुभाशुभं कर्मरुपमैकान्तिकं फलं यस्याः साऽदृष्टेकान्तिकफलेत्युत्तरगाथायां संबन्धः। इदमुक्तं भवति-येन दुःखिनोऽत्र बहवः प्राणिनो दृश्यन्ते सुखिनस्तु स्वल्पाः, तेन ज्ञायते-कृषिवाणिज्य--हिंसादिक्रियानिवन्धनाशुभकर्मरूपादृष्टफलविपाको दुःखिनाम्, इतरेषां तु दानादिक्रियाहेतुकशुभकर्मरूपादृष्टफलविपाक इति। व्यत्ययः कस्माद् न भवति इति चेत् । उच्यते-अशुभक्रियारम्भिणामेव बहुत्वात् , शुभक्रियानुष्टातॄणामेव च स्वलपत्वादिति ।
अत्राह-नन्वशुभक्रियारम्भफलामपि यद्यदृष्टफलं भवति, तत् किमिति दानादिक्रियारम्भक इव तदारम्भकोऽपि कश्चित् तदाशंसां कुर्वाणो न दृश्यते ? इत्याह-"जंच नेहेत्यादि" यस्माच नेहाऽदृष्टमनिष्टमशुभं फलं यस्याःसाऽदृष्टानिष्टफला तामित्थंभूतां क्रियां मतिपूर्वामाशंसाबुद्धिपूर्विकां कोऽपि समारभते, इत्यतो न कोऽपि तदाशंसां कुर्वाणो दृश्यते । तस्मात् सर्वापि क्रियाऽदृष्टैकान्तिकफलेति प्रतिपद्यस्वेति ।।
पुनरपि कथंभूताः ? इत्याह-" दिट्ठाणेगंतफल ति" दृष्टं धान्यद्रविणलाभादिकमनैकान्तिकमनवश्यंभावि फलं यस्याः कृषिवाणिज्यादिक्रियायाः सा दृष्टानैकान्तिकफला सर्वापि क्रिया । इदमुक्तं भवति-सर्वस्या अपि क्रियाया अदृष्टं फलं तावदेकान्तेनैव भवति, यत्तु दृष्टफलं तदनैकान्तिकमेव-कस्याश्चित् तद् भवति कस्याश्चिद् नेत्यर्थः। एतश्च दृष्टफलस्यानैकान्तिकत्वमदृष्टानुभावेनैवेति प्रतिपत्तव्यम् । न हि समानसाधनारब्धतुल्यक्रि
+ Vide our note at the end of the commentary on verse 1621.