________________
Jinabhadra Gani's
[ The second
Kriyaphalabhāvād danadînām phalam krişeriva Tadeva dānādiphalam manaḥprasādādi yadi buddhiḥ || 67 (1615) Kriya sāmānyad yatphalanasyāpi tad matam karma i Tasya pariņāmarūpam sukha-duḥkha phalam yato bhūyaḥu[68(1616)] ____Trans.-67-68 Just as there is a fruit of agriculture, so there is a fruit of charity, etc., owing to the fructification of an act. If you think that, the fruit of charity, etc., is serenity of mind, etc., then ( we say that ) that which is its fruit is looked upon as Karman owing to the commonness of kriya-the Karman from which arises again and again the fructification in the form of happiness and misery which are the results of Karman. ( 1615-1616 )
टीका-" दाणाईणं फलं त्ति " इह दानादिक्रियाणां फलमस्ति "किरियाफलभावाओ त्ति" सचेतनारब्धक्रियाणां फलभावात् फलभावदर्शनादित्यर्थः, यथा कृषिक्रियायाः। इह या चेतनारब्धक्रिया तस्या फलं दृष्टम् , यथा कृष्यादिक्रियायाः, चेतनारब्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः, यच्च तासां फलं तत् कर्म । या तु निष्फला क्रिया सा सचेतनारब्धापि न भवति, यथा परमाण्वादिक्रिया, सचेतनारब्धाश्च दानादिक्रियाः, तस्मात् फलवत्यः। स्यादेतत् , अनैकान्तिकोऽयं हेतुः, चेतनारब्धानामपि कासांचित् कृष्यादिक्रियाणां निष्फलत्वदर्शनात् । तदयुक्तम् , फलवत्वाभिप्रायेणैव तदारम्भात् । यच्च क्वचिद् निष्फलत्वमपि दृश्यते तत्सम्यग्ज्ञानाद्यभावेन सामग्रीवैकल्याद् द्रष्टव्यम् , मनःशुद्ध्यादिसामग्रीविकलतया दानादिक्रिया अपि निष्फला इष्यन्त एवेत्यदोषः ।
यदि चात्र परस्यैवंभूता बुद्धिः स्यात् । कथंभूता ? इत्याह-"तं चियेत्यादि " तदेव दानादिक्रियाणां फलं यदस्मादृशामपि प्रत्यक्षं मनः प्रसादादि । इदमुक्तं भवति-कृष्यादिक्रिया दृष्टधान्याद्यवाप्तिफला दृष्टाः, अतो दानादिक्रियाणामपि दृष्टमेव मनःप्रसादादिकं फलं भविष्यति, किमदृष्टकर्मलक्षणफलसाधनेन ?। तत इष्टविरुद्धसाधनाद् विरुद्धोऽयं हेतुः। तत्रि वयं ब्रूमः-" किरियासामण्णाओ इत्यादि" अस्यापि मनःप्रसादस्य यत्