________________
Vada ] Gañadharavada
. : 91 :फलं तद् मम कर्म संमतम् । ननु मनः प्रसादस्यापि कथं फलमभिधीयते ? इत्याह-"किरियासामण्णाओ ति" इदमुक्तं भवति-मनः प्रसादोऽपि क्रियारूप एव, ततश्च यथा दान-कृष्यादिकाः क्रियाः फलवत्यः, तथा क्रियासाम्याद् मनः प्रसादस्यापि फलेन भवितव्यमेव, यच्च तस्य फलं तत् कर्मैव, इति न कश्चिद् व्यभिचारः।
यतः कर्मणः सकाशात् , किम् ? इत्याह-" सुह-दुक्खफलं जउ त्ति " सुख-दुःखरूपं फलं सुख-दुःखफलं यतो यस्मात् कर्मणः सकाशाजायते । कथम् ? भूयः पुनः पुनरपि । कथं भूतं यत् सुख-दुःखफलम् ? इत्याहतस्यैव कर्मणस्तजनकत्वेन यत् परिणमनं परिणामस्तद्रूपमिति । एतदुक्तं भवति-यतः कर्मणः सकाशात् प्रतिक्षणं तत्परिणतिरूपं सुख-दुःखफलं प्राणिनां समुपजायते, तत् कर्म मनः प्रसादादिक्रियाया अपि फलमभिमतम् । आह-नन्वनन्तरगाथायां " दानादिक्रियाफलं कर्म " इति वदता दानादिक्रियैव कर्मणः कारणमुक्ता, अत्र तु मनःप्रसादादिक्रिया तत्कारणमुच्यते, इति कथं न पूर्वापरविरोधः ? इति । सत्यम् , किन्तु मनः प्रसादादि क्रियैवानन्तर्येण कर्मणः कारणम् , केवलं तस्या अपि मनः प्रसादादिक्रियाया दानादिक्रियैव कारणम्, अतः कारणकारणे कारणोपचाराददोष इति ॥ ६७-६८ ( १६१५-१६१६ ) ॥ . D. C.-In this world, we find that each and every act perfornied by a living being, yields a fruit, as is seen in the case of tilling of ground, etc. The acts of charity are undertaken by a living being, so they too, must bear a fruit, and that fruit is nothing else but Karman. That act which is fruitless, is not commenced by a living being, e. g., the act of electrons etc; but the acts of charity, etc., are commenced by living beings; so they are fruitful.
It may here be argued that this hetu is anaikāntika; for, the act like tilling the ground commenced by living beings, is at times seen to yield no fruit. But, this argument is not justifiable since such an act is commenced with the hope that it will be fruitful. Moreover, the failure which occurs sometimes