________________
अज्ञातकर्तृकम् णमिति ॥१॥ समानतन्त्रे सिद्धः प्रतितन्त्रेऽसिद्ध प्रतितन्त्रसिद्धान्तो यथा साख्यानां नासत आत्मलाभः । न च सत. सर्वथा विनाश इति । तथा चोक्तम्- 'नासतो जायते भावो नाभावो जायते सत" इति ॥२॥ यसिद्धावन्यस्यानुपड्गेण सिद्धिः सोऽधिकरणसिद्धान्तो यथा इन्द्रियव्यतिरिक्तो ज्ञाताऽऽऽमास्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् । तत्राऽऽनुषङ्गिणोऽर्था इन्द्रियनानात्वम् ; नियतविषयाणीन्द्रियाणि; स्वविषयग्रहणलिगानि च ज्ञातुर्ज्ञानसाधनानि, स्पर्शादिगुणव्यतिरिक्त द्रव्यं गुणाधिकरणम् ; अनियप(त)विघया चेतना इति पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति । नैतैर्विना पूर्वार्थः सभवीति ॥३॥ अ[प]रीक्षितार्थाभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्वान्तः । तद्यथा-कि शब्द इति विचारे कश्चिदाह द्रव्यं शब्दः, स तु किं नित्योऽथानित्य इत्येवं विचारः ॥४॥ स चायं चतुर्विधोपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते । ज्ञानविशेषस्य चात्मगुणत्वाद् गुणस्य च गुणिग्रहणेन ग्रहणान्न पृथगुपादानमिति ।
अथावयवाः प्रतिज्ञा-हेतूदाहरणोपनय-निगमनानि । तत्र साध्यनिर्देशः प्रतिज्ञा । यथाऽनित्यः शब्दो नित्यो वेति । हिनोति गमयति प्रतिज्ञातमर्थमिति हेतुः । तद्यथाउत्पत्तिधर्मकत्वात् । साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् यथा घट इति । वैधर्योदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाकाशमिति । तथा न तथेति वा पक्षधर्मोपसहार उपनयस्तद्यथाऽनित्यः शब्दः, कृतकत्वात् , घटवत् , तथा चायम् ; अनित्याभावे कृतकत्वमपि न भवति, आकाशवत् , न तथाऽयमिति । प्रतिज्ञाहेत्वो' पुनर्वचनं निगमनम् तस्मादनित्य इति । तत्राऽमी पञ्चाप्यवयवाः ।
यदि शब्दो गडुभाव (2) ततः शब्दस्य पौद्गलिकत्वात् पुद्गलानां चाजीवग्रहणेन ग्रहणान्न पृथगुपादानं वाच्यम् । अथ तज्जं ज्ञान तनो(तो) जीवगुणत्वाज्जीवग्रहणेनैवोपादानमिति । ज्ञानविशेषपदार्थताभ्युपगमे च पदार्थबहुत्वं स्यात् । अनेकप्रकारत्वात् ज्ञानविशेषाणामिति ।
संशयादूर्व भवितव्यताप्रत्ययः सदर्थपर्यालोचनात्मकस्तों यथा भवितव्यमत्र स्थाणुना पुरुपेण वेति. अयमपि ज्ञानविशेष एव । न च ज्ञानविशेषाणां ज्ञातुरभिन्नाना पृथक्पदार्थताकल्पन(न) समनुजानते विद्वांसः ।
सशयतर्काभ्यामुत्तरकालभावी निश्चयात्मक प्रत्ययो निर्णयः, अयमपि प्राग्वत् न ज्ञानादतिरिच्यते । किञ्चास्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावात् न पृथनिर्देशो न्याय्य इति ।।
तिनः कथा वाटो जल्पो वितण्डा चेति । प्रमाणतर्कसाधनोपालम्भ' सिद्धान्ताविरुद्ध पक्षप्रतिपक्षपरिग्रहो वाद । स च तत्त्वज्ञानार्थ शिष्याचार्ययोर्भ१ तुलना-नासतो विद्यते भावो नाभावो विद्यते सत । गीता २ १६