________________
पञ्चदर्शनखण्डनम्
शाब्दमपि न सर्वं प्रमाणम् । कि ताहिं ? आप्तप्रणीतमेव । तस्यैवाऽऽगमस्य प्रामाण्यात् । न चाहें ( है ) व्यतिरेकेणापरस्याssसता युक्तियुक्ता इत्येतच्चान्यत्र निर्लोठि
तमेव ।
१३
सर्वमप्येतत्प्रमाणमात्मनो ज्ञानम्, ज्ञानं चात्मगुणः पृथकपदार्थतयाभ्युपगन्तु न युक्तो रूपरसादीनामपि पृथकपदार्थतापत्तेः । अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः । सत्यमाश्रिताः, न तु युक्तियुक्ता (क्ताः) । तथाहि - - द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे तेषामपि ग्रहण सिद्धमेवेति न युक्तं पृथगुपादानम् ।
प्रमेयं त्वात्म गरीरेन्द्रियार्थबुद्धि-मन' प्रवृत्ति दोष प्रेत्यभाव-फल-दुःखाऽपवर्गाः । तत्र आत्मा सर्वस्य द्रष्टोपभोक्ता इच्छा-द्वे प-प्रयत्न- सुख-दुःख-ज्ञानानुमेयः । स च जीवपदार्थतया गृहीत एवास्माभिरिति । शरीरं तु तस्य भोगायतनम्, भोगसाधनानीन्द्रि। याणि, भोक्तव्या इन्द्रियार्थाः । एतदपि शरीरादिकं जीवाजीव ग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः । स च जीवगुणतया जीवोपादानतयोपात्त एव । सर्वविषयमन्तःकरणं युगपत् ज्ञानानुपपत्तिलिङ्गं मन; तदपि द्रव्यमन: पौगलिकमजीव - ग्रहणेन गृहीतं भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति । आत्मन: सुखदुखसंवेदनायां या निर्वर्तनकरणं प्रवृत्तिः सापि पृथकूपदार्थतया नाभ्युपगन्तुं युक्ता । तथाहि - प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एवात्माभिप्रायतया ज्ञानविशेषत्वात् । आत्मानं दूषयतीति दोष' । तद्यथा - - अस्यात्मनो नेदं शरीर [म] पूर्वम् अनादित्वादस्य, नाप्यनुत्तरम् अनन्तत्वात् संततेरिति योऽयम् आत्मनोऽध्यवसाय स दोषः, रागद्वेषमोहादिको वा दोपः । अयमपि दोपो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः । प्रेत्यभावः परलोकसद्भावः । अयमपि ससाधनो जीवाजीवग्रहणेनोपात्त एव । फलमपि सुखदुःखोपभोगात्मकम् । तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्टव्यमिति । दुःखमित्येतदपि विविधवाधनायोगरूपमिति न फलादतिरिच्यते । जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो मोक्षः । स चास्माभिरुपात्त एवेति ।
किमित्यनवधारणात्मकः प्रत्ययः सशय । असावपि निर्णयज्ञानवदात्मगुण एवेति । येन प्रयुक्त' प्रवर्तते तत् प्रयोजनम् । तदपीच्छाविशेषत्वादात्मगुण एव । अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्त' । असावपि जीवाजीवयोरन्यतरो न, एतावताऽस्य पृथकुपदार्थताऽयुक्ता अतिप्रसङ्गात् । अवयवग्रहणेन च तस्योत्तरत्रग्रहणादिति ।
सिद्धान्तश्चतुर्विध । तथथा सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः । यथा स्पर्शनादीनीन्द्रियाणि; स्पर्शादय इन्द्रियार्था; प्रमाणैः प्रमेयस्य ग्रह