________________
पञ्चदर्शनखण्डनम् वति । स एव विजिगीषुणा साघु छल-जाति-निग्रहस्थानसाधनोपालम्भो अल्पः । स एव प्रतिपक्षस्थापनाहीनो वितण्डेति ।
तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते यतस्तत्त्वचिन्तायां तत्त्वनिर्णयार्थ वादो विधेयो न च छलजात्यादिना तत्त्वावगमः कर्तुं पार्यते । छलादिकं हि परवञ्चनार्थमुपन्यस्यते । न च तेन तत्त्वावगतिरिति । सत्यपि भेदे नासां पदार्थता यतो यदेव परमार्थतो वस्तुत(वृ)त्या वस्त्वस्ति तदेव पदार्थतयाभ्युपगन्तुं युक्तम् । वादास्तु पुरुषेच्छावशेन भवन्तोऽनियतार्था वर्तन्ते । न तेषा पदार्थतेति । किञ्च, पुरुषेच्छाविधायिनो वादाः कुक्कुटलवकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्तिः स्यात् । न चैतदिष्यत इति ।
असिद्धाऽनैकान्तिकविरुद्धा हेत्वाभासाः । हेतुवदाभासन्त इति हेत्वाभासाः । तन्न सम्यगहेतूनामपि तत्त्वव्यवस्थितिः, किं पुनस्तदाभासानाम् । तथाहि-इह यन्नियतं वस्तु अस्ति तदेव तत्त्वं भवितुमर्हति, हेतवस्तु कचिद्वस्तुनि साध्ये हेतवः कचिदहेतव इत्यनियतास्त इति । ____ अथ छलम् अर्थविघातोऽर्थविकल्पोपपत्त्येति । तत्रार्थविशेषे विवक्षितेऽभिहिते वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्, यथा नवकम्बलोऽयं देवदत्तः, अत्र नवः कम्बलोऽस्येति वक्तुरभिप्रायः, विग्रहे च विशेषो न समासे । तत्रायं छलवादी-नव कम्बला अस्येत्येतद्भवताऽभिहितमिति, न चायं तथेत्येवं प्रतिषेधयति । तत्र छलमित्यसदर्थाभिधानम् । तद्यदि छलं न तर्हि तत्त्वम् , तत्त्वं चेद् न तर्हि छलम् । परमार्थरूपत्वात् तत्त्वस्येति । तदेवं छलं तत्त्वमित्यतिरिक्ता वाचोयुक्तिः ।।
दूषणाभासास्तु जातयः । तत्र सम्यग्दूषणस्यापि न तत्त्वव्यवस्थितिरनियतत्वात् । अनियतत्व च यदेवैकस्मिन् सम्यग्दूषण तदेवान्यत्र दूषणाभासम्, पुरुषशक्त्यपेक्षत्वाच्च दूषण-दूषणाभासव्यवस्थितेरनियतत्वमिति । कुतः पुनर्दूषणाभासरूपाणां जातीनां तत्त्वत्वं वास्तवम् , अवास्तवत्वात् तासामिति ।
वादकाले वादी प्रतिवादी वा येन निगृह्यते तत् निग्रह स्थानम् । तच्च वादिनोऽसाधनाङ्गवचनम्, प्रतिवादिनस्तु असदोषोद्भावन विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति । तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम् । एतच्च विचार्यमाणं न निग्रहस्थान भवितुमर्हति । तस्योक्तनीत्या सदोषत्वादिति । तदपि च पुरुषस्यैवापराधं कर्तुमलं न तु तत्त्वं भवितुमर्हति । वक्तृगुणदोषौ हि परार्थेऽनुमानेऽधिक्रियेत न तु तत्वमिति । तदेवं न नैयायिकैरुक्तं तत्त्व तत्त्वेनायितुं युज्यते तस्योक्तनीत्या सदोषत्वादिति । ।