________________
१३६
श्रीपद्मसुन्दरविरचितः म्न्यथा तदनुपपत्ते. '। यदि भावः स्वार्थक्रियाकारी ोकस्वभावस्तदैकमेव कार्य स्यान्न देशकालाकारादिभिन्नमनेकम् । ततोऽन्यथा विश्वविश्वस्याप्येकहेतुकतापत्तः । सहकारिभेदादेकस्वभावादेवानेकान्तमिनि नानुमेयम , अनेकस्वभावस्यैव तत्तत्समुदायिनां तत्तद्रूपस्ट हेतोरनेककार्यकारित्वात् , नावस्थानं चानादित्वात् तत्प्रवन्धस्य, ततस्तद्विरोधि सर्वथैकान्तनिरासमाधनं सिद्धमिति । विरु द्वसहचरं यथा 'नास्य मिथ्याज्ञानं सम्यग्दर्शनाविर्भावात्' इति, तटभावेन हि विरुद्धस्तत्सद्भाव इति, विरुद्वसहचरस्य तु कारणमत्रैव साध्येत तत्त्वाधिगमादिति, कार्य च शमसवेगादेरिति, तत्त्वाधिगमो हि सम्यग्दर्शनस्य कारण, शमसवेगादि च कार्यमविनाभावनिश्चयात् सम्यग्ज्ञानसहभाविन तद्भावमधिगमयन् मिथ्याज्ञानव्युदासाध्यवसायमासादयेदिति । तथाऽन्यदपि विधिरूप प्रतिषेधलिङ्गमनुमन्तव्यम् । अनुपलब्धिकसाधकप्रतिषेधरूपमपि तल्लिङ्गमनेकधा-स्वभावकारणव्यापकानुपलम्भादि मेदात् । तत्र स्वभावानुपलम्भो यथा 'नास्ति बोधात्मनि रूपादिमत्त्वम् अनुपलम्भात् खरशिरसि विषाणवत्' । कारणानुपलम्भो यथा 'न तत्रौकसि पाकसम्भव पावकानुपलम्भात्' । व्यापकानुपलम्भो यथा 'नास्त्यत्र शिंशपा वृक्षानुपलम्भात्' । कार्यानुपलम्भो यथा 'नात्र शरीरेषु बुद्धिापारादिविशेषानुपलब्धे.' । सहचरानुपलम्भो यथा 'नास्त्यस्य तत्त्वज्ञानं सम्यग्दर्शनाभावात्' । पूर्वचरानुपलम्भो यथा 'न भविष्यति मुहूर्तान्ते शकटोदयः कृत्तिकोदयानुपलब्धे.' । उत्तरचरानुपलम्भो यथा 'मुहूर्तात् प्राग् नोदगाद् भरणिः कृत्तिकोदयानुपलब्धे.' इति । प्रतिषेधेनाप्यनुपलम्भसिद्धौ विधिसाधनसम्भवोऽपि त्रिधा-विरुद्धकायस्वभावानुपलम्भादिभेदात् । विरुद्धकार्यानुपलम्भो यथा 'अस्मिन्नगिनि कोऽप्यस्ति रुग्विशेषस्तथोल्लाघत्वानुपलब्धेः', रुग्भेदस्तु नैरुज्येन विरुद्धस्तदभावे तत्कार्यविशिष्टचेष्टाया अनुपलम्भवतो रुग्विशेषानुमानम् । विरुद्धकारणानुपलम्भो यथा 'अस्त्यत्र प्राणिनि सुखमनिष्टसयोगाभावात्', सुखेन हि विरुद्धं दुःखम् , तस्य कारणमनिष्टसयोगः, तदमावः तदनुपलम्भः सुखास्तित्वगमक. स्यात् । विरुद्धस्वभावानुपलब्धिर्यथा 'अनेकान्तं वस्त्वेकान्तानुपलब्धे', अनेकान्तेन विरुद्धो नित्यैकान्तः क्षणिकैकान्तो वा, तस्यानुपलब्धि. प्रत्यक्षादिप्रमाणेनास्य ग्रहणाभावात् सुप्रसिद्धा । परम्परया सम्भवत्कार्यकार्यादिसाधनमपि कार्या(र्य 2)विरुद्धोपलम्भेऽन्तर्भावनीय यथा 'अभूदत्र चक्रे शिवका स्थासात्', शिवकस्य हि साक्षाच्छत्रकः कार्य स्थासस्तु परम्परया, अन्यथा तु नियतपरिमाणव्याघातः स्यात् । एवं हि तादात्म्यतदुत्पत्तिलक्षणप्रतिवन्धेऽप्यविनाभावादेव
१. एकान्तविरुद्धोऽनेकान्तस्तेन व्याप्तस्तत्त्वम् । २. सम्यग्दर्शनसद्भावम् । ३. नरुज्यस्य कार्य या विशिष्टा चेष्टा तस्या अनुपलम्भत. ।