________________
प्रमाणसुन्दर। .
१३५ द्विधा-सपक्षस्य व्यापकमव्यापकं चेति । व्यापक यथा 'अनित्यः शब्दः कृतकत्वात् घटवत्' इति । सपक्षव्यापकत्वं चास्य घटवदनित्ये सर्वत्र विद्युद्वत् कुसुमादावपि भावात् । तदव्यापकं यथा 'शब्दोऽनित्यः प्रयत्नान्तरीयकत्वाद् घटवत्' इति । तस्य तत्त्व घटवदनित्येऽप्यन्यत्र जलधरध्वानादावभावात् प्रयत्नस्य तु पुरुषधर्मत्वादिति । धर्मिणो भिन्नमपि लिगमनेकधा-कार्य, कारणम् , अकार्यकारणं चेति । तत्र कार्य धूमः पर्वतादौ पावकस्य; व्याहाराकारविशेषग्रहो ताल्वादिसहायस्यैवात्मनो व्यपाराभ्युपगमे, घटाद्युत्पत्तौ चक्रादिसहायस्य कुम्भकाराापारवत्त्वादिति कथमन्यथा घटादेरप्यात्मकार्यता । कार्यकार्यादेरपि कार्यहेतावेवान्तर्भाव । कारणलिङ्गं यथा 'अस्त्यत्र छाया छत्रात्, मेधोन्नतिविशेषो वर्षणस्याभ्यवहारविशेषश्च तृप्ते.' इति । कारणकारणादेरप्यत्रान्तर्भाव । अकार्यकारणं लिङ्ग द्विधा साध्येन समसमयम् विभिन्नसमयम् । तत्राद्य रसादिः रूपादे ; शरीराकारविशेषो वा जीवस्य । प्रतिपद्यन्ते हि गाढमूर्छाद्यवस्थायां तद्विशेषदर्शनाज्जीवत्ययमिति प्रतिपत्तार, कथमन्यथा तदवाऽपनोदाय तेषां चिकित्माविधावुपक्रम । विभिन्नसमयं यथा 'उत्तरेद्युा (१)तिपतिरुदेष्यति अवतनद्युतिपतेरुदयात्' । तदित्थमन्यदपि विधिसाधनं प्रतिपत्तव्यम् ।
प्रतिपेधसाधनमपि द्विधा - विधिरूपं प्रतिषेधरूपं चेति । विधिरूपमप्यनेकधाविरुद्धं, तत्कार्य, तत्कारण, कार्यकारणं चेति । तत्राद्य यथा 'नास्त्यत्र शिशीरस्पर्श वह्नेः' इति, वह्निः खळूष्णत्वव्याप्येनावगम्यमानस्तत्प्रतिषेध्यस्य शिशिरस्पर्शस्याभावगमक' स्यात् । विरुद्धकार्यं यथा 'नास्त्यत्र गीतस्पर्टी धूमात्', धूमो हि वह्नितत्कार्यत्वेन तद्विरोधिशीतस्पर्शाभावगमकः स्यात् । कारणविरुद्धकार्यमप्यदसीयो भेदः 'नास्य हैमनो रोमहर्षादिविशेषो धूमात्' इति , धूमो हि हिमस्य तत्प्रतिपक्षिदहनोपनयनेनाभावमधिगमयंस्तत्कार्यतद्विशेषाभावगमकः स्यात् । विरुद्धकारणं यथा 'नायं मुमुक्षुः परपीडकः कृपालुत्वात् ', कृपालुत्व हि अनुग्रहतातद्वतस्तत्प्रतिपन्थिपरपीडकत्वाभावगमकं स्यात् । कारणविरुद्धकारणमपीदमीयो विकल्पः यथा 'नास्य मुनेमिथ्यावादस्तत्त्वशास्त्राभियोगात्', तदभियोगो हि तत्त्वज्ञानं तद्वतस्तन्निषेध्यमिथ्याज्ञाननिवृत्तिनिवेदनेन मिथ्यावादाभावगमकः स्यात् । कार्यकारणमपि अनेकधा विरुद्धव्याप्त्यादिभेदात् । तद्यथा 'नास्ति भावेषु सर्वथैकान्त सत्त्वात्', सत्त्वं हि अनेकान्तेन व्याप्त
१ सपक्षाव्यापकत्वम् । . अर्थान्तरम् । ३ गाढमूर्छाद्यवस्था । ४. प्रतिपत्तणाम । ५ शिशिरस्पर्शविरोधिवह्निकार्य धूम' । ६ हैमनरोमहर्षकारण हिम, तद्विरोधिवहिकार्यत्वं धूमे । ७ परपीडनस्य विरोधि अपरपीडनम् । ८. मिथ्यावादकारण मियाज्ञान तस्माद्विरुद्ध सम्यगज्ञानं तत्कारण तत्त्वशास्त्राभियोग ।