________________
प्रमाणसुन्दरः ।
१३७
ग्रमकत्वम्, तदभावे' वक्तृत्व-तत्पुत्रत्वादेस्तादात्म्य - तदुत्पत्तिप्रतिबन्धे सत्यपि असर्वज्ञत्वे श्यामत्वे च साध्ये गमकत्वाप्रतीतेस्तदभावेऽप्यैविनाभावानुग्रहादेव कृत्तिकोदय-चन्द्रोदयगृहीताण्डकपिपीलिकोत्सर्पणैकाम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां यथाक्रमं शकटोदय-समसमयसमुद्रवृद्धि - भाविवृष्टि-समकालकुड् कुमारुणरूपसद्भावेषु गमकत्वप्रतीतेरिति । तदित्थंभूत लिङ्गप्रभवमनुमानं प्रमाणमेव ।
साध्येषु
1
अथ प्रत्यक्षादेः प्रमाणस्य स्वार्थवैकल्यमप्यां (प्यं) तरङ्गावरणोदयाविनाभूतबहिरङ्गाक्षदोषविजृम्भितेन प्रमाणाभासोऽपि स्यात्, तदेवाह - 'अज्ञानात्मकानात्मप्रकाशकस्वमात्राभासकनिर्विकल्पक समारोपाः प्रमाणस्य स्वरूपाभासाः ।' तन्नाज्ञानात्मकं तु सन्निकर्षादि ज्ञानम् अपेक्षित परव्यापारत्वात् स्वरूपपररूपव्यवस्थाऽनुपपत्तेः । अथ यदि सन्निकर्षस्यैव प्रत्यक्षत्वं ततश्चक्षुषा रूपवद् रसादेरपि ग्रहणप्रसङ्गस्तस्य तंत्र (2) वेतरत्रापि सयुक्तसमवायेन सन्निकर्षात् सन्निकर्षादिसद्भावेऽपि भावेन्द्रियासन्निधाने स्वार्थसंवेदनाऽनुपपत्तेश्च, अञ्जनादेः सन्निकृष्टस्यापि चक्षुषा प्राप्तस्यापि घटादिवद् [अ]दर्शनादिति सत्यं स्वरूपाभासत्वं प्रत्यक्षस्य सन्निकर्षज्ञानमिति । अनात्मप्रकाशकमस्वसंविदितज्ञानम्, न हि स्वरूपमनिश्चिन्वन् विकल्पोऽर्थनिश्चायकः स्यात् । स्वंमात्रावभासकं परवादिनोऽर्थापलापकं ज्ञानम् । निर्विकल्पकं तु दर्शनम्, तदाssकस्मिकधूमदर्शनाद् वह्निविज्ञानवत्, तदुक्तं च " विषयदर्शनवत् सर्वमज्ञस्याकल्पानात्मकं दर्शनं न प्रमाणं स्यादविसवादहानित:" इति । समारोपस्तु प्रमाणपरिपन्थिको तस्मिंस्तदित्यध्यवसायलक्षणः । स च सगयविपर्यासाव्युत्पन्नात्मक इति । तत्र 'मरुमरी - चिकाचकं तोयादिर्वा' इति चलिता प्रतीतिः सशयः, शुक्तिकायां रजतारोपो विपर्यासः, किमित्यालोचनोल्लिङ्गि ज्ञानम[न] ध्यवसायः पथि पुरुषस्य गच्छतः तृणस्पर्शवदिति । चैत्रे मैत्रस्यारोपः समारोपत्र्यङ्ग इति प्रत्यक्षाभासः । तद्वदनुमानेऽप्युक्तस्यान्तरङ्गबहिरङ्गरूपस्य हेत्वाभासादेस्तद्धेतोर्भावात् तत्र त्रिविधो हेत्वाभासः -- असिद्धानैकान्तिकविरुद्धविकल्पात् ।
"
"
तत्रासिद्धोऽपि त्रिधा - स्वरूपाज्ञातसदिग्धभेदात् । स्वरूपासिद्धो यथा 'अनित्यः शब्दश्चाक्षुषत्वात्' इति, न हि शब्दस्य चाक्षुषत्वम्, श्रावणत्वस्यव तत्र भावतः प्रतिपत्तेः । भज्ञातासिद्धस्तु शब्दानित्यत्वे सर्वोऽपि कृतकत्वादिः, न हि तस्यै कुतश्चित् परिज्ञानम्, प्रत्यक्षस्य - स्वलक्षणविषयतया सामान्यात्मनि, स्वलक्षणे विकल्पस्य च स्वाकारपर्य - १. अविनाभावाभावे । २. तादात्म्यतदुत्पत्तिप्रतिबन्धाभावेऽपि । ३. कृतकस्य ।
१५