________________
हेतुखण्डनपाण्डित्यम् । एतावता सुमतिसा इति सिद्धम् । तथा नं नकारं अमति गच्छति इति नम् तम् एतावता ध इति सिद्धम् । पश्चात् कर्मधारये सम्बोधने हे वीरविश्वातिशायिनम् ! एतावता सुमतिसाध इति जातम् । हेतुखण्डं हेतुशब्दस्य खण्डं उकारलक्षणं यस्य स हेतुखण्डः । एतावता सुमतिसाधु इति जातम् । हे सुमतिसाधुगुरो ! त्वां
अर्थान्नत्वा पाण्डित्यताण्डवं काक्वा न मण्ड्यते । अपि तु मण्ड्यते । त्वां कीदृशम् ? श्रिया गणधरलक्ष्म्या जिनमिव जिनम्, "तित्थयरसमो सूरी" इति वचनात् ।
अथ कविः स्वविद्यागुरुनमस्कारं करोति । श्रीजिनं नत्वा हेतुखण्डनपाण्डित्यताण्डव मया मण्ड्यते । श्रीजिनं कीदृशम् ? हर्ष इति शब्दस्य ता लक्ष्मोस्तस्या उदीप्तियत्र एतावता श्रीजिनहर्षगुरुस्त पश्चानुपूर्व्या वा जिनहर्षमिति प्रसिद्धं नत्वा । कीदृशम् ? वीरं श्रेष्ठम् , यद्वा उर्वृषध्वज. श्रीनामेयस्त ईर्ते प्रतिज्ञापदेन परतीर्थिपु जानातीति विपि वीर्; यद्वा वीरं विक्रान्तं प्रतिवादिविजयेन; अथवा वीरं विराजमानं जगज्जाधिकयशसा तम् । पुनः कीदृशम् ? विश्वातिशायिनं विशिष्टा ये 'स्वा. स्वकीयाः साधवस्तेषु विद्यादिगुणैरतिशायिनम् अनन्यसामान्यगुणोपेतम् । पुनः कथंभूतम् ? हेतवो विषया अर्थात् ससारस्याश्रवद्वाराणि, तेषां खण्डनं निर्दलनं, तत्र पाण्डित्यं यस्य तं स्तुत्वा ताण्डवं बालचापलं मण्ड्यते प्रस्तुयत इति क्रियासंटङ्कः ।
ननु भो ! सकलकलिन्दिकादिकाकमलिनीसमुल्लासनसहस्रकरानुकारिव्याहाराः ! सुजनजनमनस्तापव्यापनिर्वापणप्रथमजलधरधारावधीरिवागव्यापाराः ! हृद्यानवद्यविद्याविद्याधरोपरिरम्भणोपात्तविद्याधरावताराः ! विदुरनरनिकरचेतश्चमत्कारकारिमनोहारिमहीमण्डलविस्तारिमहिमाधाराः ! विक्रमाक्रान्तदिक्चक्रभूशक्रसभालङ्कारहारानुकाराः ! मया यदनुमान विधीयमानमास्ते तदुभाकर्णि समाकर्ण्यता सकर्णाः ! सर्वान्तर्वाणिवण्यमानासवर्णवर्णाः ।।
तथाहि--भू-भूधर-दिनकर-मकराकरादिकं जगद् बुद्धिमत्कर्तृकम् कार्यत्वात् । यद् यत् कार्य तत् तद् बुद्धिमत्कर्तृकम् , यथा घटः । यद् बुद्धिमत्कर्तृकं न भवति तत् कार्यमपि न भवति, यथा व्योमादि । न तावदय हेतुरुद्धताऽसिद्धतासिद्धसीकोत्तरीगरीयस्तरदुस्तरकटाक्षलक्षविक्षेपविक्षेपितः । सद्भूतानुभवसिद्धाविनाभावसिद्धधर्माधिकरणविद्यासिद्धत्वात् ।
नापि दुर्द्धरविरुद्धतोद्धततर्कवितर्केन्धनकार्कश्यावरुद्धता धीधनैरुद्भावनीया विचक्षणाक्षीणक्षोदक्षमाध्यक्षनिर्णीतविपक्षव्यावृत्तिव्याप्तिशक्तिप्रकोपपावकाहुतीभूतप्रत्यर्थिपक्षत्वात् । । १. 'विश्वा' इति 'विस्वा' कल्पितम् । २ पु० कलिङ्कादि