________________
७८
साधुविजयनिवद्धम् __नापि मनैकान्तिकाक्रान्तविपमविपधरीविपावेगविधुरीभूनताश्याशइनाया | स्वपभापक्षसाध्यववृत्त्यतिरिक्तपक्षनिर्णीतव्यावृत्तिमञ्जुलक्षितिरुहायतच्छाया मुग्वनिपण्णत्वात् ।
नापि कालात्ययापदिष्टतादुष्टदन्दशूकदरत्वं निष्टहनीयम् । प्रत्यक्षानुगानागमावाधितपक्षप्रयोगपक्षाधिराजपक्षान्तरश्रान्तविश्रान्तत्वात् ।
नाप्यस्य हेतुनरवरस्य प्रकरणसमनानकाक्रान्तत्वं गहनीयः । एतत्प्रतिपन्धिसमर्थप्रत्यनुमानाभावातपत्रपवित्रप्रभुताप्राप्तसाम्राज्यमुभगत्वात् ।
एव च समर्थासिद्धतादिदोषप्रत्यर्थिपृथुदैत्यकदर्थन प्राप्तविजयलन्मीयौवनकृताीकरणचणेलम्मीकान्तेनामुना हेतुना स्वसाध्यमाधनविधौ सामय॑मानं (सामर्थ्य समगेमानं) केन निवारयितु शाशक्यते शक्रपगक्रमेणापि ?
उच्यता मुच्यता मौन सिच्यतां कर्णकोटरम् ।
स्वकीयगोरसोद्गारैरासारैरिव भूरुह ॥
इह हि सर्वाङ्गीणानणीय सुधावीरिप्रमाणधोरणीप्रगुणीभवदवण्डपाण्डि. त्योड्डामरतां मन्यमाने , सकलप्रवीणप्रामाणिकश्रेणिशिरोमणीयमानै., निजनवोपन्यासविन्यासचमत्क्रियमाणकोविदपुरन्दरै , तथाविधाम प्रमाणप्रयोगप्रकाशनाभिमुखीकृतविदुरनरनिकरैस्तत्रभवद्भिः शुभवद्भिर्भवद्भिरभिमतसान्यसाधनाय यदनुमानमवादि वादिवृन्दारकपुरन्दरैर्माद्यत्कुवादिकुलफलढसमूलोन्मूलनदुर्द्वरसिन्धुरैस्तदनुमान विचार्यमाणं न चारुतया चतुरचेतसां चेतसि चकास्ति । साध्यसिद्धचनिबन्धनत्वात् । साध्यसिद्धयनिवन्धनत्वं च विचारासहत्वात् ।
तथाहि-ननु भवन्निरूपितो हेतु किं निश्चितस्वरूपः उत अनिश्चित्तस्वरूप. ? इति विमलानल्पविकल्पयुगलं वादीन्द्रवदनचङ्गगागरगदनुत्तरतरतरङ्गभङ्गीसुभङ्गीभूताविकलविपुलपुलिनादवतरत् कलमरालवालविमलयुगलमिव भवत्पुरतः प्रसरीसरीति ।
अथ तत्र बहुतिथपृथुः प्रथम कल्पः कल्पनापथमतिथीक्रियते प्रथीयस्तरप्रतिभाप्राग्भारपरावोमुवितजम्भारिगुरुभिस्तत्रभवद्भिवद्भिः, तत्रेदं परीपृच्छयते--निजाजर्यवर्ययश.कर्पूरपूरसुरभीकृतत्रिभुवनभवनानां श्रीमतां भवता कुतस्तनिश्चितस्वरूपत्वम् ?–स्वत परत प्रमाणाद् वा ? इति अद्वैतपक्षद्वय भीमार्जुनद्वयमिव प्रतिपक्षपक्षलक्षविक्षोभदक्षं साक्षादुपतिष्ठते । तत्र पौरस्त्यश्चेत् प्रस्तूयते प्रास्तागस्ततम स्तो(स्तो)
२. दे. करणचलण' ३ सकलदोषराहित्यम् अभशत्वम् । ४ अय हेतुः साध्यसिद्धयनिवन्धनः विचारासहत्वात् । यो यो विचारासह स स साध्यसिद्धयनिवन्धन., यथाऽसिद्धादय हेत्वाभासाः ।