________________
श्रीमत्साधुविजयनिबद्धम् || हेतुखण्डनपाण्डित्यम् ॥
अपरनाम
॥ वादिविजयप्रकरणम् || १. त्रिविधहेतु खण्डनम् ॐ नमः सर्वज्ञाय
श्रीजिनं हर्षतो नत्वा वीरं विश्वातिशायिनम् । हेतुखण्डनपाण्डित्यताण्डवं मण्ड्यते मया ॥
'
अस्य व्याख्या । मया हेतुखण्डनपाण्डित्यताण्डवं मण्ड्यते । हेतोः साधनस्य, खण्डनं निर्दलनम्, तस्य पाण्डित्यं चातुर्यम्, तदेव ताण्डवं विदुरनरनिकर विस्मयावह - त्वात् नृत्यम्, मण्ड्यते प्रारभ्यते इति यावत् । किं कृत्वा ? 'श्री' श्रिया चतुस्त्रिंशदतिशयरूपया उपलक्षितं तीर्थेशम, जिनं केवलिनम्, विश्वातिशायिन लोकोत्तरातिशयम्, वीरं वर्धमान हर्षतो नत्वा प्रणम्येत्यर्थः ।
2
अस्य शास्त्रस्य सर्वपार्षदत्वात् कविः शिव- केशवयोरपि नमस्कारं करोति । मया हेतुखण्डनपाण्डित्यताण्डव मण्ड्यते । किं कृत्वा ' श्रीजिनं श्रिया लक्ष्म्या युतम् - एतावता - लक्ष्मीनारायणं नत्वा । जिनं कीदृशम् ' वीरं विना पक्षिणा - ईरिक् गतिकम्पन - योरिति गत्यर्थात्–ईर्त्ते गच्छति क्विपि वीरः तं वीरं गरुडवाहनमित्यर्थ. । पुनः कीदृशम् ' विश्वातिशायिनं विश्वा देवा तेषु अतिशायिनं इति केशवार्थ' ।
2
अथ गिवं स्तौति । मया हेतुखण्डनपाण्डित्यताण्डवं मण्ड्यते इति प्राग्वत् । किं कृत्वा ± नत्वा । कम् ' वीरं 'वि' विरुद्धम्, ई कामं, ईरयति कम्पयतीति वीरः कामनाशनः शिवस्तम्। कीदृशम् ' श्रीजिन श्रीज' काम, स विद्यते यस्य, 'भतोऽनेकस्वरात्' [ ७|२|६| सिद्धहे ० ] इति 'इन्' इति श्रीजिनः तं श्रीजिनम् - भिल्लीरूपां पार्वतीं वीक्ष्य सरागमित्यर्थ । पुनः किंस्वरूपम् विश्वा सम्पूर्णा, अतिर्ज्ञानम्, तस्य शा लक्ष्मीः, तत्र आयिनं प्राप्तम्, सर्वज्ञवत् ।
,
2
अथ कविः सम्प्रति विजयमानश्री सुमतिसाधुसूरीश्वरं तन्नामाकर्षणपूर्वं स्तौति । हे वीरम् उकारात् पर' ईर् गच्छन् अकारेण युक्तो मकारो यस्मिन् स वीरम्, एतावता म इति सिद्धम् । तथा अश्व अश्च समाहारे अं, अवति गच्छतीति क्विपि ऊ, गच्छत् च तत् अं च तदस्तीति विन् वीरम् चासौ वी च वीरस्विन् एवंविधः सुआअति । सा इति शब्दस्त 'अयि-वय-पयि मयि गतौ', अयते इति ' शीलार्थे' णिनि आयिन्, २ विरवि -ऊ+भ+व+इन् ३ श्वाति-सु+भा+अ+ति । अत्र शकारस्थाने सकार कल्पित । ४ (शायि - ) अत्रापि 'शा' स्थाने 'सा' कल्पित तत 'साथि' इति साधितम् ।
उ+इर् +अम् = वीरम् ।