________________
७५
हेतुविडम्बनस्थलम् । नतावदन्यथा, हेतोः सदिग्धानेकान्तिकतापत्तेः। द्वितीयेऽपि निश्चितविपक्षव्यावृत्तिमत्त्वं किं सार्वकालिकं तात्कालिकं येति कल्पनोभयी सभयीकरोति भवन्तम् । न तावत् तात्कालिकी । तथात्वे ह्युत्तरकालभाविविपक्षवृत्तेः सम्भावितत्वेन सदिग्धानकान्तिकताया अनिवृत्तेः । न हि यावता साधनस्य त्रैकालिकी विपक्षव्यावृत्तिर्निश्चीयते न तावता व्याप्तेरनवद्यत्वमुत्पाद्यते । नापि सार्वकालिकी, तस्या असर्वज्ञाऽविज्ञेयत्वात् । किञ्च, भवतात् सार्वकालिकी विपक्षव्यावृत्तिः , परं सा निश्चिताऽनिश्चिता वा स्यात् । नाऽनिश्चिता, तस्या विश्वासाऽनङ्गत्वात् । [अथ निश्चिता] निश्चयोऽपि किं प्रत्यक्षेण किं वा परोक्षेण ? प्रत्यक्षेण(णे)ति यदि मुख्यः पक्ष प्रख्याप्यते दक्षलक्षमुख्यैस्तत्रापि किं तदध्यक्षमैन्द्रियमतीन्द्रिय वेत्यादिपूर्वप्रदर्शितभवदीयान्यदीयसविकल्पकनिर्विकल्पकादिप्रत्यक्षविकल्पावतारो दुर्वार एव । परोक्षमपि किमनुमानमागमो वा ? नाऽप्यनुमानम् । तत्रापि पूर्वावतारिप्रकारसारोदारस्फारतर विकल्पानल्पप्रोज्ज्वलल्लोलकल्लोलमाला कथमुत्तरणीयाऽन-- णीयोधिषणैः । आगमोऽपि न सुखसगमोल्लासी । सोऽपि किं भवदीयः परकीयो वा ? एकैकोऽपि कि पौरुषेयोऽपौरुषेयो वेत्यादि दरिद्रजनगृहामुद्रकाचपिच्यं न कदाचनापि विरमेत । तन्न विपक्षव्यावृत्तिः शक्यते विधातुम् । विपक्षव्यावृत्तिनिश्चयनमन्तरेण साधनान्यभिधीयमानानि के विशेष पोपयन्ति विशेषज्ञसभायाम् ? एवं विपश्चिद्भिविचार्यमाणा यदि सम्यग्घेतावपि हेत्वाभासता प्रतिपद्यते(घेत) तदा प्रसर्पदों परवादिनां किञ्चिन्मात्रसाधर्म्यवैधोपयुक्तहेतुमात्रवलाऽवलम्बनेन कथं समुज्जम्भते सरभसं परिरम्भाय विजयलक्ष्मीः ।।।
श्रीसूरीश्वरसोमसुन्दरगुरोः शैक्षक्षमामण्डलख्यातश्रीशशिगच्छदुग्धजलधिस्फुर्जसुधारोचिषः ।, श्रीमद्वाचकनायकः प्रतिमतध्वान्तार्यमार्योदयः
शिष्यः श्रीजिनमण्डनः स्म तनुते हेतोरिदं खण्डनम् ॥ । इति हेतुविडम्बनेस्थलम् । कृतः(तिः) श्रीजिनमण्डनस्य ।