________________
आसितशती।
९५ लोकनासक्तवाहितुण्डिकश्रमो निरर्थक एष भवितेति व्यज्यते । यद्वा चत्वरकइन सर्वजनसमाजयोग्यत्वं ध्वन्यते । दूरं बहुकालं खेलयतु । परस संकेतितनाकस्य प्राणैः किमिति कीडसि । अतो गच्छ । एवं चान्यस्य निर्विघ्नतासंपादने. वस्थापि तद्भवतीति नियमेनात्र सकलदुष्यासक्त्या निर्विघ्नतया संकेंक्तिनायकस.. व गन्तव्यम् । विलम्बे तु मदनानलसंतप्तस्य तस्य प्राणा एवं गमिष्यन्तीति ती नायिका वक्ति ॥ कुपितनायिकाचरणप्रहारखिनं नायक नायिकासखी समाधत्ते___ करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।
रोषयति परुषवचनैस्तथा तथा प्रेयसी रसिकः ॥ १८८॥ करेति । कोपचञ्चलाक्षी करौ च चरणौ च करचरणं तेनाङ्गेषु यथा यथा हरति तथा तथा क्रोधजनकवाक्यैः प्रेयसीं यः कोपयति स एव रसिकः । एवं है यदि त्वं रसिकस्तयतादृशेऽर्थे कोपविधानमनुचितं तवेति व्यज्यते । अत्र द्वितीतच्छब्दः 'संचारिणी दीपशिखा-' इत्यादि पद्यवदुचितः ॥ निन्दसि त्वं नायिकामिति वादिनी नायिकासखी नायको वक्ति
कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः ।
को भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥ १८९ ।। कस्तामिति । तां को निन्दति । न कोऽपीत्यर्थः । मदनपटस्य चित्ररूपाम् । वर्णकः' इति पाठे मदनपटचित्रमित्यर्थः । को मूर्यो लुम्पति । रत्नकण्टको रननेन्दकः । 'कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकहाटकनिष्कशुष्कवर्चकपिनाकभाण्डककटकदण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च' इति गणिनिलिङ्गानुशासनात्कण्टकशब्दो नपुंसकः । को भवति । सुधायामरुचिः कस्योति । न कस्यापीत्यर्थः । एवं चैतादृश्याः कथं मया निन्दा विधेयेति व्यज्यते ॥
संकेते गत्वा तत्र नायिकामप्राप्य गतं मया तत्रेति ज्ञापनाय चूताङ्करमादाय यिकादृग्विषयं नायकं प्रति नायिकासखी वक्ति
कोपवति पाणिलीलाचञ्चलचूताङ्करे त्वयि प्रमति ।
करकम्पितकरवाले स्मर इव सा मूछिता सुतनुः ।। १९० ।। कोपवतीति । कोपवति । कथं न समागतेयमिति धियेति भावः । सरविरोषणमप्येतत् । पापी लीलया बिलासेन । एवं च लोकान्यथाबुद्धिनिराहकत्वं