________________
काव्यमाला।
वन्यते। यद्वा मन्मयशस्त्ररूपत्वं तेन च तत्संबन्धेनोन्मत्ततया वेदनानभिज्ञत्वं खस्मिन्व्यज्यते ॥
कथमनेन विलम्बितमिति कुपितां नायकेन च खापराधक्षमापनाय विहितप्रसादा नायिका सखी वक्ति
कोपाकृष्टभूस्मरशरासने संवृणु प्रिये पततः ।
छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥ १८५ ।। कोपेति। प्रिये नायकविषये कोपेनाकृष्टम् । एवं च ज्याभजो युक्त इति व्यज्यते । भ्रूरूपं सरशरासनं यया तत्संबुद्धिः। छिन्ना या ज्या तन्मधुपानिव । सरधनुा भ्रमररूपेति प्रसिद्धिः । पततः कजलमलिनाश्रुजलबिन्दून्संवृणु । एवं च नायकप्रणत्युत्तरकालं कोपविधानमनुचितमिति व्यज्यते। यद्वा संवृण्विसनेन कोपप्रदर्शनाव्यवहितमेव तत्परित्यागोजुचित इत्यावेद्यते । यद्वा छिन्नज्यात्वनिरूपणेन यद्यधुनापि कोपं करिष्यसि तर्हि कुपितो नायकः केनापि समाहिनुमशक्य इति भीतिरावेद्यते । अत्र जलपदमाधिक्यं द्योतयति ॥ बालवनिताचित्तं खकरे कर्तु कृतयत्नवैकल्यखिन्नः कश्चिद्वक्ति
कामेनापि न मे किमु हृदयमपारि बालवनितानाम् ।
मूढविशिखप्रहारोच्छूनमिवाभाति यद्वक्षः ॥ १८६ ॥ कामेनेति । बालवनितानां हृदयं कामेनापि । एवं चान्यस्य का वार्तेति भावः । भनुम् । किमु वितर्के । नापारि मूढस्य । यद्वा मूढो मन्दो यो बाणप्रहारस्तेनोच्छुनमिव वक्ष आभाति । अन्यस्यापि धन्विनो मन्दशरप्रहारे लक्ष्यशरीर उच्छूनतामात्रमेव भवति । एवं च मदीययत्नेनैतासां हृदयं न भिद्यत इति न चित्रमित्यावेद्यते ॥
कश्चिनायिका वक्ति' किं परजीवैर्दीव्यसि विसयमधुराक्षि गच्छ सखि दूरम् ।
अहिमचिचत्वस्मुरगग्राही खेलयतु निर्विघ्नः ॥ १८७ ॥ • किमिति । हे सखि, विस्मयेन । सर्पदर्शनकौतुकजन्येनेत्यर्थः । सुन्दराक्षि। विस्फारितत्वादिति भावः । परस्यान्यस्य प्राणैः किमिति क्रीडसि । दूरं गच्छ । चत्वस्मधिकृत्याहितुण्डिको विघ्नहीनोऽहिं खेलयतु । एवं च निखिलजनेषु त्वद्धदना