________________
आर्यासप्तशती। घेति शतिनाम । इन्द्रेण परमेश्वरेण । पक्षे पुरंदरेण । दत्ता। आसादितो विशिष्टानां जयो यया। न विद्यत आसादितविजयो यस्याः सकाशात् । एवं चेयमेव विशिष्टजयकर्तीत्यर्थः । पक्षेऽप्राप्तार्जुना । यद्वासादितो विजयो यस्याः। एतज्जयकारिणी नान्येति भावः । इयं तव दृष्टिः शक्तिश्च क्वचिदप्यपगतोऽर्थो यस्याः ।। पण्डेयर्थः । पतिता नेति न इति काकुः । पक्षेऽर्जुनभिने घटोत्कचे पतिता नेति न । एवं च यस्त्वत्कटाक्षमात्रेण न वश्यः स पुरुष एव नेति द्योत्यते ॥
क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण ।
कामोऽपि तत्र सायकमकीर्तिशती न संघते ॥ १८२ ॥ : क्लेशयसीति । दूतीरिति बहुवचनेन न कापि तत्र युक्तिश्चलतीति व्यज्यते । अकीर्तिशती। षण्ढत्वादिति भावः । एवं च कामबाणापेक्षया कटाक्षेऽतिशयोः व्यज्यते ॥ • कश्चिदधरं स्तौति
को वेद मूल्यमक्षबूते प्रभुणा पणीकृतस्य विधोः। .
प्रतिविजये यत्प्रतिपणमधरं घरनन्दिनी विदधे ॥ १८३ ॥ को वेदेति । प्रभुणेश्वरेण । एवं चानघवस्तुसत्त्वं द्योत्यते । अक्षयूते पणीकृतस्य चन्द्रस्य मूल्यं को वेद । यस्माद्धरति महीमिति धरः। 'धरपर्वताः' इत्यमरः । तत्तनया । एवं च चातुर्यविशेषवत्त्वं ध्वन्यते। प्रतिविजये प्रतिपणमधर विदधे । एवं चाधरसमताप्रदर्शनेन चन्द्रेऽधिकत्वं न वास्तवमित्यधरामृतेऽधिकर्व ध्वन्यते॥ • 'मुश्च माम्, नो चेत्ताडयामि चरणेन' इति वादिनी कुपितनायिकां नायको वक्ति
कुपितां चरणप्रहरणमयेन मुञ्चामि न खलु चण्डि त्वाम् । • अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥ १८४ ॥ कुपितामिति । हे निरर्थककोपने, चरणप्रहरणभयेन कुपितां त्वां न मुञ्चामि । यतो वायुचपलपल्लवताडनसहोऽलिलतां भजते । अलिरिति खसिबलितुल्यत्वप्रतिपादनेनानन्यगतिकत्वं द्योत्सते । कोपेऽनिलतुल्यत्वप्रतिपादनेन चञ्चल त्वमावेयते। चरणे किसलयतुल्यत्वप्रतिपादनेन कोमलत्वं तेन च दुःखाजनकत्वं