________________
काव्यमाला।
पदेन बुद्धिविशेषशालित्वं व्यज्यते । देवदानवयोः पराजयाय प्रभुः समर्थो विष्णुः सौभाग्यस्य मदादमिमानात्खयंवरेण श्रियम् । एवं चात्यन्तस्पृहणीयत्वं व्यज्यते। इच्छति । एवं च शारीरबुद्धिबलसत्त्वेऽपि विष्णुना लक्ष्मीपाणिग्रहणाय न बलात्कारः कृतः। अतस्त्वया नैताकर्म कर्तव्यमिति ध्वन्यते। यद्वा त्वयि सुभगत्वेऽवश्यं सा त्वामेव वरिष्यति, अन्यथा बलाढतेति न तत्प्रीतिरिति ध्वन्यते ॥
एतेषु वैदेशिकेषु स्थायि भ्रमेण विहिता त्वया संगतिः, तव सा न सुखदेति काचिकांचित्प्रति वक्ति
किं पुत्रि गण्डशैलप्रमेण नवनीरदेषु निद्रासि।
अनुभव चपलाविलसितगर्जितदेशान्तरम्रान्तीः ॥ १७९॥ किमिति । हे पुत्रि । एवं चोपदेशार्हत्वं ध्वन्यते । गण्डशैलानां भ्रमेण । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । नूतनमेघेषु । नीरदपदेनेदं देयमिदं देयमिति संकल्पमात्रकारित्वं व्यज्यते । तेन च न ततोऽर्थप्राप्तिरपीति । निद्रासि । एवं चातिविश्वस्तत्वं व्यज्यते । चपलायास्तडितो विलसितानि, गर्जितानि च, देशान्तरभ्रमणानि चानुभव । एवं चैतत्संगत्या सपत्नीवैभवतर्जनदिगन्तगमनादिदुःखमवश्यं भावीति व्यज्यते ॥ नायिकासखी नायकसखीं वक्ति
कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।
सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ १८० ॥ कान्त इति । कान्तश्चरणेन हत इति सरलाम् । एवं च भवच्छाव्यानभि. ज्ञेयत्वमिति ध्वन्यते । अपराध्य । सापराधां विधायेत्यर्थः । किं प्रसादयथ । सोऽपि प्रहाररूपः प्रसादः, एवमेव किं सुलभः । एवं च मानिन्यानया क्रोधात्पादाहते नायके भवतीमीरियमनुचितकार्यकारिणी त्वमिति त्रासयित्वा प्रसादना क्रियते । परं त्वेतत्पदप्रहारोऽप्येतस्यातिदुर्लभ इति नायिकाधिक्यं द्योत्यते ॥
किमिति नायको नानीयते भवतीभिरिति दूतीषु वादिनी नायिका सखी द्धाभ्यां वति
कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदता च ।
सा नासादितविजया कचिदपि नापार्थपतितेयम् ।। १८१ ॥ कर्णगतेयमिति । या कर्णविशाला, कर्णहस्तगता च । सफला । पक्षेऽमो