________________
आर्यासप्तशती ।
केचिद्दूरादागताः, परंतु नात्र तेषां तत्फलमिति कश्चिदन्योक्त्या वक्तिकेतकगर्भे गन्धादरेण दूरादमी द्रुतमुपेताः । मदनस्यन्दनवाजिन इव मधुपा धूलिमाददते ॥ १७६ ॥
I
केतकेति । केतकपुष्पस्य मध्ये गन्धस्यादरेण लोमेन द्रुतं दूरात् । एवं च श्रमातिशयो व्यज्यते । उपेताः । गन्धस्यादरो यस्य तेन । वायुनेत्यर्थः । द्रुतं दूरादुपेता मदनरथाश्वा इव । एवं च भारवहनसमर्थत्वं व्यज्यते । तेन चोपमेयेऽतिश्रेष्ठत्वम् । मधुपाः । एवं च तदेकजीवनोपायशालित्वं ध्वन्यते । धूलिमाददते । एवं चैतादृशानां कीर्तिश्रवणादागतानामत्रैतादृशी गतिरित्यनुचितमिति व्यज्यते । पक्षे रथोद्धतरजः संबन्धाद्धूलिमत्तेति भावः । यद्वा सामान्यवनितां सखी वकि— 'हे केतकगर्भे । अतिगौराङ्गीत्यर्थः । कीर्त्यादरेण दूराच्छीघ्रमागताः । एवं चात्रत्यानां कालान्तरेऽपि समाधातुं शक्यत्वमावेद्यते । मदनरथाश्वा इव । एवं च मदनोऽपि सौन्दर्याद्यनेकगुणवतामेतेषामेव बलेन जगज्जयं करोतीति व्यज्यते । तेन चैतादृशदुर्लभा इति । मधुपा मद्यपाः । एवं चोन्मादवत्तया द्रव्यव्ययक्लेशशून्यत्वं ध्वन्यते । धूलिम् । अर्थात्त्वच्चरणसंबन्धिनीम् । आददते । एवं चैतेन नायका अवश्य मनुग्राह्या इति ध्वन्यते ॥
1
मूर्खनिबद्धान्तःकरणत्वान्नैता चातुर्यादिगुणभाजनमिति कश्चिदन्योक्त्या वक्ति
को वक्रिमा गुणाः के का कान्तिः शिशिरकिरणलेखानाम् । अन्तः प्रविश्य यासामाक्रान्तं पशुविशेषेण ॥ १७७ ॥ ·
क इति । वक्रिमा वक्रत्वं कः, गुणाः के, कान्तिः का, चन्द्रलेखानाम् । शिशिरकिरणपदेन तदधिपमान्द्यमावेद्यते । प्रविश्य यासामन्तरभ्यन्तरं पशुविशेषेण । अतिजडेनेति भावः । आक्रान्तम् । एवं चैतासां चातुर्यादि सर्व मिथ्यैवेति व्यज्यते ॥
1
बलादियं कन्या मया परिणेयेति वादिनं कश्चिदृष्टान्त व्याजेन वारयति - कृतविविधमथनयत्नः पराभवाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यमदात्स्वयंवरेण श्रियं विष्णुः ॥ १७८ ॥ कृतेति । कृतो विविधमथने यत्रो येन सः । मथनमर्थात्समुद्रस्य । विविध