________________
काव्यमाला।
भयाररचनार्थ कृताभ्यज्ञां साधारणवनितां सखी वक्ति
कजलतिलककलङ्कितमुखचन्द्रे गलितसलिलकणकेशि ।
नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥ १७२ ॥ कजलेति । हे कजलतिलकेन । दृग्दोषनिवारणार्थ कृतेनेति भावः । कलतितो मुखचन्द्रो यस्यास्तत्संबुद्धिः । गलितसलिलकणाः केशा यस्यास्तत्संबुद्धिः । नूतनो यो विरहवाहिस्तस्य तूलरूपस्त्वया कतमो जीवयितव्यः । 'दूनः' इत्यपि पाठः । एवं चैतादृशत्वदीयदर्शनेन सर्वेऽपि तात्कालिकविरहवहिवृतदह्यमाना भविष्यन्ति, तेषु कस्त्वयानुग्राह्य इति सुभगत्वं ध्वन्यते ॥ खस्य दारिद्येऽपि महान्तो न दानं परित्यजन्तीति कश्चिद्वक्ति
कृच्छानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृणमात्रजीवना अपि करिणो दानद्रवाईकराः ॥१७३ ॥ कृच्छेति । कृच्छ्रानुवृत्तयोऽपि कष्टजीवना अपि महान्तः । एवं च नीचानामन्यादृशी गतिरिति भावः । परोपकारम् । दानरूपमित्यर्थः । न त्यजन्ति । तृणमात्रेण जीवनं येषां तेऽपि करिणो गजा', दानं मदः, दानोदकं च तेनाईः करः शुण्डादण्डश्च येषाम् ॥
कांचन गोपिकामालिङ्गय तिष्ठन्तं कृष्णमवलोक्य विस्मयेन समागतान्बालकान्गोपीसखी वक्ति
किं हसथ किं प्रधावथ किं जनमाहयथ बालका विफलम् ।
तदयं दर्शयति यथा रिष्टः कण्ठेऽमुना जगृहे ॥ १७४ ।। किमिति । रिष्टो दैत्यः । एवं च भूतार्थाभिनयोऽयं न त्वन्यदपूर्व किचिदिति व्यज्यते ॥
कातरताकेकरितस्मरलज्जारोषमसृणमधुराक्षी।
मोक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ॥ १७५ ॥ कातरतेति । कातरता भीतिस्त्रया केकरिते वक्रीकृते स्मरलज्जारोषैर्मसणमधुरे स्निग्धसुन्दरे अक्षिणी यस्याः । मोक्तुमथवा न मोक्तुम् । नायकमिति भावः । अब लग्धा रती रतं ययासौ वलत उद्युक्ता भवति । जातिवर्णनमेतत् ॥