________________
आर्यासप्तशती।
चिकुराकर्षणं मुषितम् । भुजगभयादिति भावः । एवं च रतिकालीननायिकाविधीयमानकेशाकर्षणमत्यन्तसुखदमिति व्यज्यते। 'चिकुराकर्षरसमुषितः' इति पाठे येन रसमुषितो हरो जात इत्यर्थः ॥ · को वा नायिकाप्रणयशालीति वादिनं कश्चिद्वक्ति
करचरणकाञ्चिहारपहारमविचिन्त्य बलगृहीतकचः।
प्रणयी चुम्बति दयितावदनं स्फुरदघरमरुणाक्षम् ॥ १७०॥ करेति । करादिप्रहारमविचिन्त्य । नायिकाकृतमित्यर्थः । बलेन । एवं च पीडा भविष्यतीति ज्ञानविधुरत्वं तेन चात्यन्तरतिनिर्भरत्वं व्यज्यते। गृहीतकचः स्फुरदधरम् । निठुरं वक्तुमिति भावः। अरुणाक्षम् । कोपोद्रेकादिति भावः । दयितावदनं यथुम्बति । एवं च भीतिशून्यत्वं व्यज्यते। स प्रणयी नायिकानिरूपितप्रेमवान् । अन्यथा कोपाद्यवगणय्य बलाचुम्बनकरणमसंभवीति भावः । 'नायिकाविषयकप्रेमवान् । एवं च प्रहारदुःखमवगणय्य यस्तथा करोति स एव तथेति भावः' इति ऋजवः । वस्तुतस्तु रागोद्रेकशालीत्यर्थः । यद्वैतादृशो यखथाविधं नायिकावदनं चुम्बति स एव धन्य इत्यर्थः । यद्वा मया कोपः प्रदर्शनीयः, त्वया तु प्रियो मयि बलात्काराय प्रेरणीय इति शिक्षिता सखी नायकं वक्ति । एवं च कोपवल्यामपि नायिकायां प्रीतिशालिना नायकेन तत्कृतकरतर्जनाद्यवगणय्य बलात्कारः क्रियत एव, अतस्त्वया भीतिमुत्सृज्य खेच्छाचारो विधेय इति ध्वन्यत इत्यर्थः ॥ नायकचाञ्चल्यखिनां नायिका सखी समाधत्ते
कुरुतां चापलमधुना कलयतु सुरसासि यादृशी तदपि ।
सुन्दरि हरीतकीमनु परिपीता वारिधारेव ॥ १७१ ॥ कुरुतामिति । हे सुन्दरि, अधुना नायकश्चापलमितस्ततो विलोकनादि कुरुताम् । न निवारणीय इति भावः । यतो यत्प्रकारिका त्वं सुरसासि तदपि जानातु । केव । हरीतकीमनु परिपीता जलधारेव । एवं च यथा तितकटुकादिरसशालिहरीतकीखादोत्तरं जलधारा मृष्टतमा भवति, तथा त्वमन्यगुणहीननायिकारसाखादोत्तरमत्यन्तसुखदा भविष्यसीति व्यज्यते । अत एवासम्यग्वस्तुदर्शनोत्तरं सम्यग्वस्तुदर्शनेन सुखम् , न तेन विना तथेति लोकप्रसिद्धिः ॥