________________
вв
काव्यमाला ।
बर्तिनी शीतलापि खच्छाया न सुखजनिका तथाहं संवृत्तेत्यत्र न मद्दोषः, अपि तु ईश्वरेच्छेवात्र नियामिकेति व्यज्यते । यद्वा सततसेवाकारित्वसौम्यत्वखीयत्वादिदोषवत्त्वादहं न सुखजनिकेति द्योत्यते । तेन चैतदभाववत्येवैतत्तोषजनिकेति ॥ नायकसंगमे श्रमो भवतीति वादिनीं सखी वक्ति— केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेन । दयितवहनेन वक्षसि यदि भारस्तदिदमचिकित्स्यम् ॥१६७॥ केशैरिति । स्फुटार्थमेतत् ॥
नायको मानिनीं वक्ति —
किंचित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे ।
इरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥ १६८ ॥ किंचिदिति । हे सुन्दरि, किंचित्कार्कश्योत्तरम् । एवं चातिकार्कश्याभावो व्यज्यते । खमावसृष्टं रसं रतिम् । पक्षे द्रवम् । प्रदास्यन् । मानस्य, इक्षोरिव ग्रन्थिरपि । दुरफ्नेयाग्रह इति यावत् । किमु वाच्यं मृद्वभिमान इत्यपिना द्योत्यते । काम्यः । एवं च मानग्रन्थावपि सुखम् किमुत तदपगम इति व्यज्यते । तेन चैतादृशावगणनमनुचितमिति द्योत्यते । 'मधुरः' इति पाठे ग्रन्थिविशेषणम् ॥
1
?
कश्चिदतिप्रवीणो वक्ति—
केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् । येन रतिरभसकान्ताकर चिकुराकर्षणं मुषितम् ॥ १६९ ॥
1
केनेति । गिरौ शेते तस्य । एवं च नागरिकव्यवहारशून्यत्वं व्यज्यते । तेन यस्यकस्यचिद्वचनविश्वासकारित्वम् । भुजगं जटावने । एवं च खतो भीषणत्वेऽपि भुजगाणेनातिभीषणत्वं ध्वन्यते । अर्पयितुम् । अर्पितपदेन संस्थापनाभावप्रतिपादनेनेतस्ततो जटासंचारित्वं भुजगे व्यज्यते । तेन चैकदेशस्यापि करस्पर्शायोग्यत्वम् । केन बुद्धिर्दत्ता । यद्वा जटानामवनं रक्षणं तत्र । तन्निमित्तमित्यर्थः । एवं च संरक्षणेऽन्ये बहवोऽभ्युपायाः सन्ति, एवं सत्येतादृशायुक्त विचार कथनमप्रामाणिककृत्यमिति व्यज्यते । यद्वा गिरिशपदेन भुजगसंस्थापनाई कंदरादिज्ञानवत्त्वं द्योत्यते । जटाभिरवने । अवननिमित्तमित्यर्थः । अर्थाद्भुजगस्य । एवं च भुजगे भूषणत्वं ध्वन्यते । एवं च वनपदस्य विपिनार्थकत्वे सर्पस्यावनयोग्यत्वे न तत्करणेनानौचित्यमायातीति दूषणमपास्तम् । येन यया बुद्ध्या रतिवेगेन यत्कान्तया करेण