SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। गुणाभिज्ञमीरुकुलजनायिकानामेवान्यानवलोकनीयतासंपादकपटावगुष्ठनमुचितम्, न त्वन्यासामपीति कश्चिद्वक्ति कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये । याः शक्यन्ते लब्धं न पार्थिवेनापि विगुणेन ॥ १६४ ॥ . कूपेति । या विगुणेन रजुशून्येन । पक्षे गुणरहितेन । पार्थिवेनापि पृथिवीविकारकलशादिनापि । पक्षे राज्ञापि । एवं च धनादिलोभशून्यत्वं नायिकासु व्यज्यते । प्राप्तुं न शक्यन्ते तासां कूपप्रभवाणाम् । एवं च गम्भीरत्वं तेन च दुष्प्रापत्वं ध्वन्यते । अपां जलानाम् , पट्टस्य सारिण्या बन्धनम् । पक्षे सर्वाङ्गीणाच्छादकवस्त्ररचनं परमुचितं मन्ये । यद्वात्यन्तलज्जावत्तयाच्छादनादिकारिणी कश्चिद्वक्तिएवं चेतस्ततो द्रव्यादिलोमेन गमनादिशालिन्याः किं तव गोपनमिति व्यज्यते ॥ खण्डिता नायिका नायकं वति कररुहशिखानिखात प्रान्ता विश्रान्त रजनिदुरखाप । रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम्॥१६५॥ करेति । नखाग्रनिखात बहुतरनखक्षतशालिन् , भ्रान्त्वा। इतस्ततो गत्वे. त्यर्थः । पक्षे मेहं प्रदक्षिणीकृत्य । विश्रान्त । क्षणमात्रमिति भावः। रजन्यां दुरवाप । अन्यत्रासक्तत्वादिति भावः । पक्षे मेरोरुत्तरगमनात् । यत्रोल्लिखितो रविरिव कृशोऽपि । अपिना निस्तेजस्कत्वसमुच्चयः । लोकस्य । न ममेति भावः । लोकपदमनभिज्ञत्वं ध्वनयति । दृशं हरसि । एवं चैतादृशखरूपस्त्वमन्याभ्य एव रोचसे न मह्यमिति व्यज्यते। सूर्योऽपि तेजोबाहुल्येन वीक्षितुमशक्यस्त्वष्टा यत्रोल्लिखितोऽल्पतेजस्कतया लोकग्विषय इति भावः ॥ किमिति खखामिनं न सुखयसीति वादिनी कांचित्काचिद्वक्ति किं करवाणि दिवानिशमपि लमा सहजशीतलप्रकृतिः। हन्त सुखयामि न प्रियमात्मानमिवात्मनश्छाया ॥ १६६ ॥ किमिति । सह बाल्यतः । पक्ष उत्पत्तित इत्यर्थः । जाता, शीतला शान्ता। पक्षे यथाश्रुतम् । प्रकृतिः खभावो यस्याः सा । एवं च सर्वदा मधुरक्चनशालित्वं व्यज्यते । दिवानिशमपि लगा । सेवार्थमिति भावः । अहमात्मनः खस्य छायात्मानमिव प्रियं हन्त खेदे न सुखयामि । किं करवाणि । एवं च यथा सर्वदा निकट
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy