________________
काव्यमाला।
धियेति भावः । निजं वपुः किमिति न मण्डयसि । सत्वां मधुराम् । एवं च निषेधवचनकारिणी न त्वमिति व्यज्यते। इक्षुयष्टिमिव पर्वखपि पर्वकालेऽपि । पक्षे प्रन्थिष्वपि । 'प्रन्थिर्ना पर्वपरुषी' इत्यमरः । न त्यजति । एवं च मिथ्यैतत्त्वं दर्शयसि, तेन तु त्वं यथेच्छमुपभोग्येति ध्वन्यते ॥ केनचिनायकेन सह संयोजयितुं नायिका दूती वक्ति
कष्टं साहसकारिणि तव नयनार्धन सोऽध्वनि स्पृष्टः।
उपवीतादपि विदितो न द्विजदेहस्तपखी ते ॥ १२ ॥ कष्टमिति । हे साहसकारिणि । अनुचितकारिणीत्यर्थः । एवं च मया तवोचितमेवोपदिश्यत इति व्यज्यते । तव । एवं च साक्षादनपराधत्वेऽपि खीयत्वेन तदपराधस्य त्वय्येवागमनमिति व्यज्यते । तेन च तत्परिहारकर्तव्यता तवैवेति । नयनार्धेन स नायकोऽध्वनि स्पृष्टः । त्वत्कटाक्षविषयीभूत इत्यर्थः । इदं कष्टम् । महदनुचितमित्यर्थः । एवं च त्वत्कटाक्षविशिखहतस्य तस्य त्वदर्शनं विना प्राणवियोग एव भवितेति व्यज्यते । किमेतावता इत्यत आह-तपखी । एवं च करुणाईत्वं व्यज्यते । ब्राह्मणदेह उपवीतादपि । एवं च प्रत्यक्षपरिदृश्यमानत्वेन न स ब्राह्मण इति वक्तुमशक्यमिति भावः । तेन च विदितः । एवं चान्यजातीयस्य यथातथास्ताम् , अयं तु ब्राह्मणोऽवश्यं त्वया गत्वा जीवनीय इति द्योत्यते । श्रमातिशयप्राप्तयानया ते किं मुखमिति वादिनं कश्चिद्वक्तिक्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव ।
रौद्रेऽनश्रेऽपि नभःसुरापगावारिवृष्टिरिव ॥ १६३ ॥ क्लेशेऽपीति । केशेऽपि विस्तार्यमाणे मिलितेयं मां प्रमोदयत्येव । एवं चान्यस्यैतादृशी मोदयति न वेति को वेदेति भावः । अभ्राभावेऽपि धर्मे नभसः सुरापगाया वारिदृष्टिरिव । एवं चाभ्राभावे धर्मे खिन्नस्य यथा वृष्टिरत्यन्तसुखदा तथैतस्याः संगतिरिति व्यज्यते । मेघाभावेऽप्यातपे ये जलबिन्दवः पतन्ति ते सुरापगाया इति लोकप्रथा ।