________________
आर्यासप्तशती।
काचीनिनादः कथयति । अत एव श्लाघा जन्म यस्य । धनिकत्वादिति भावः । अयं कः। एवं चैतादृशशीतातिशयशालिसमयेऽपि नायिकेयमत्यन्तोल्लासेन विपरीतरतं विदधाति तस्मादयमर्थविशेषशालीति ज्ञातम्, परं तु का वास्याभिधेति न ज्ञायत इति भावः। यद्वा कः श्लाघनीयजन्मेति प्रश्न उत्तरं वक्ति-प्रालेयानिलदीर्घः। एवं च संतापापनोदकत्वं ध्वन्यते । अयमित्यत्यन्तानुसंधीयमानत्वेन प्रत्यक्षवनिर्देशः । काञ्चीनिनादो माघनिशीथेऽपि । अपिनेतरकालसमुच्चयः । एवं च माघरानेरतिदीर्घत्वं तत्राप्यतिचिरकालीनं रतमितोऽन्यकाले किमु वाच्यमिति व्यज्यते । यस्य सौभाग्यं कथयति । एवं च यस्यैवातिसुप्रेमसुरतनिपुणतरुणीसंततसङ्गवत्ता स एव श्लाघनीयजन्मेति भाव इत्यर्थः ॥
किमशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति म ।
सा गिरिशभुजभुजंगमफणोपधानाध निद्राति ॥ १५९॥ किमिति । प्रेम्णः किमपि नाशक्यं यतो या सर्पवार्तयापि बिमेति स्म सा हरभुजसर्पफणारूपमुपधानं यस्या एतादृशी। अद्य । विवाहोत्तरदिन इत्यर्थः । निद्राति । एवं च प्रेम्णा कि किंन संभवतीति व्यज्यते । पार्वतीसखीवाक्यमेतत् । यद्वा प्रेमवत्त्वेऽपि तत्रागमने मम भीतिरुत्पद्यत इति वादिनी नायिका नायकदूती दृष्टान्तेन वक्ति-अद्य । अधुनेत्यर्थः । एवं च यदि ते प्रेम तर्हि ते नास्त्येव भीतिः, अन्यथा न प्रेम इन्युभयतोऽपि काठिन्यम् , अतः प्रयाहीति ध्वन्यते । यद्वा तद्रसाखादोत्तरं न स्थास्यति भीतिरिति ध्वन्यते ॥ सामान्यवनितासंगतिरनुचितेति कश्चित्कंचिच्छिक्षयति
कृत्रिमकनकेनेव प्रेम्णा मुषितस्य वारवनिताभिः ।
लघुरिव वित्तविनाशक्लेशो जनहास्यता महती ॥ १६० ।। कृत्रिमेति । कृत्रिमं धानुवादादिभिर्मिथ्या विधीयमानं यत्कनकं तेनेव प्रेम्णा वारवनिताभिमुषितस्य वित्तविनाशक्लेशो लघुः। परं तु जनहास्यता महती। एवं न्च सामान्यवनितासंगमो न विधेय इति व्यज्यते ॥ सखी नायिका वक्ति
कि पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि ।
स त्वां त्यजति न पर्वखपि मधुरामिक्षुयष्टिमिव ॥ १६१ ॥ किमिति । पर्वदिवसे मार्जितौ दन्तोष्टौ यया तत्संबुद्धिः । ब्रह्मचर्यस्थिति.