________________
८४.
काव्यमाला ।
•
वारं वारं दूरीकृत इति भावः । अङ्गेषु शरीरावयवेषु निपतन्मृङ्ग इव भृङ्गः । एवं च रसलम्पटत्वं व्यज्यते । नर्तयति । मृङ्गोऽपि चपलकिसलयचाञ्चल्यदूरीकृतोऽपि पुनस्तामेव लतामालम्बत इति मृङ्गपदेन नायिकायां लतात्वारोपणेनावयवेषु पल्लवत्वारोपणेन कोमलत्वमावेद्यते । एवं चेयं विटेन वारं वारं तत्करनिवारणमवगणय्य लोकदृष्टिं लज्जां च कुचादौ स्पृश्यत इति कौतुकं त्वं पश्येति व्यज्यते । अन्ये तु यथाश्रुतमेवाहुः ॥
निरोधदुःखितां नायिकां काचिच्छिक्षयति
कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति । रोधोऽरुद्धखरसातरङ्गिणीस्तरलनयनाश्च ॥ १५६ ॥
कमलेति । हे कमलमुखि, सर्वतोमुखस्य जलस्य निवारणं बन्धनेन प्रवाहविच्छेदनं सर्वस्मान्मुखस्याप्रदर्शनं च । लज्जयेति भावः । विदधदेव तीरं रोधनं च । अरुद्धः खस्य रसो जलम्, इच्छा च यामिस्ता नदीः, नायिकाश्च भूषयति । एवं चावश्यस्पृहणीयत्वं रोधने द्योत्यते । तरङ्गिणीतरलनयनपदाभ्यां चाञ्चल्यमभिव्यज्यते । एवं चावश्यं निरोधवत्त्वेन भवितव्यमिति ध्वन्यते ॥
किमर्थं न सा समायातीति वादिनं नायकं दूती वक्ति
कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसंचारा । बहुदायैरपि संप्रति पाशकसारीव नायाति ॥ १५७ ॥ कितवेति । हे कितव । एवं चागमभीतिरावेद्यते । भवता प्रपञ्चिता प्राकव्यं नीता चालिता च । मन्दाक्षेण लज्जया । पक्षे मन्दपाशकैः । खल्पसंख्यावद्भिरित्यर्थः । मन्दः खल्पः संचारो गृहागृहान्तरगमनं यस्याः । बहुद्रव्यैरपि । पक्षे बहुदायैरित्यर्थः । वारंवारपातनैरिति यावत् । अपिनोपायान्तरशून्यत्वं ध्वन्यते । संप्रति । कालान्तरे को वेद किं भविष्यतीति न जान इति व्यज्यते । पाशकसारीव पाशक्रीडनगुटिकेव नायाति । एवं च तवैवापराधो न तस्या इति द्योत्यते ॥ साधारणवनिताप्रतिवेशी कंचित्प्रति वक्ति
कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् । प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥ १५८ ॥
क इति । यस्य माघार्धरात्रेऽपि सौभाग्यं प्रालेयानिलेन दीर्घः । प्रालेयानिलस्य समापनोदकतया सुरतातिशयसंपादनेन काम्बीनिनाददैर्घ्यसंपादकत्वमिति भावः ।