________________
आर्यासप्तशती।
गतं मिथ्यासुप्तं नायक नायिका वति-हे मिथ्याखाप । मदीयवासध्वनिदत्तकर्ण । किमियं जागर्ति न वेति ज्ञातुमिति भावः । निःश्वासैः। संभोमजन्यैरिति भावः । मां किमिति विध्यसि । दुःखं ददासीत्यर्थः। श्वासेषु सरशरसमताप्रति. पादनेन केवलखसाक्षिकवेदनाजनकत्वं ध्वन्यते ॥
कश्चित्षिाविशेषसंचारनिरुद्धान्यसंचारां तद्गमनोत्तरं सामान्यवनितामन्योक्त्या वक्ति
क स निर्मोकदुकूलः कालंकरणाय फणिमणिश्रेणी। .
कालियभुजंगगमनाचमुने विश्वस्य गम्यासि ॥ १५३ ॥ केति। स प्रसिद्धो निर्मोक एव सर्पकचक एव दुकूलः क्व । अलंकरणाय फणिमणिश्रेणिः क । कालियनामा यो भुजंगः सर्पः । पक्षे तत्तुल्यो विटः । तद्गमनाद्विश्वस्य यमुने नदि । पक्षे यमुनेति नाम । गम्यासि । एवं च तथाविधदुष्टविटसंपर्कसंजातान्योपभुक्तवसनादि सर्व विहाय तदभावात्सकलजनसंसर्गादधुनान्याहशमेव सर्व संवृत्तमिति व्यज्यते । यद्वा केनचिन्महत्तरविटेन पूर्व पालितां तदपगमोत्तरं सर्वसुलमा सामान्यवनितामन्योक्त्या तत्प्रशंसनपुरःसरं वति। एवं च तद्विटगमनोत्तरं तथाविधोज्ज्वलदुकूलबहुमूल्यमणिमयभूषणाद्यभावेऽपि सकलजनोल्लङ्घनीयत्वं तव वृत्तमिति व्यज्यते ॥ कश्चिनायिकाप्रसादनवृत्तान्तं वयस्यं प्रति वक्ति
किंचिन्न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पदपतिते केवलमकारि शुकपञ्जरो विमुखः ॥ १५ ॥ किंचिदिति । मयि पदपतिते कृतप्रणामे । मानापनोदनार्थमिति भावः । बालया किंचित्रोक्तम् । सम्यगसम्यग्वेति भावः । न केवलं वचनाभावमात्रम् , अपि तु प्रसादसहिता दृष्टिर्न निवेशिता। किंतु केवलं शुकपञ्जरोऽन्यदिधुखोऽकारि । एवं च शुकपञ्जरवैमुख्यसंपादनरूपरहःसंपादनेन रत्खनुमतिरेव दत्तेति व्यज्यते ॥ साधारणवनिताचेष्टां कश्चिद्वक्ति
कृतहसितहस्ततालं मन्मथतरलैर्विलोकितां युवमिः।
क्षिप्तः क्षिप्तो निपतन्नने नर्तयति भृङ्गस्ताम् ॥ १५५ ॥ कृतेति । कृतो हसितेन हस्खतालो यत्र। परस्परमिति भावः। मन्मथचअलैः । एवं च लज्जाविरहो व्यज्यते । युवनिर्विलोकितां नायिका क्षिप्तः क्षिप्तः ।