________________
काव्यमाला।
किंचित्कालोत्तरमियं प्राप्तयौवनास्माकमुपयुका भविष्यतीत्याशंसाकारिणं कश्चिदन्योक्त्या वर्कि· कालक्रमकमनीयकोडेयं केतकीति काशंसा ।
वृद्धिर्यथा यथास्यास्तथा तथा कण्टकोत्कर्षः ॥ १५१ ॥ कालेति । कालक्रमेण कमनीयः क्रोडः समीपदेशः। पक्षे भुजाभ्यन्तरम् । इयं केतकीति काशंसा । न कापीत्यर्थः । अत्रोपष्टम्भकमाह-यथा यथास्या वृद्धिस्तथा तथा कण्टकोत्कर्षों भविता। एवं चैतस्या यौवनेऽनेकदुष्टप्रचारो भवितेति व्यज्यते। तेन च न तवोपयोग इति । कण्टकोत्कर्षभवनरूपक्रियान्वयस्यैकदा तंत्पदाथै भवितुमर्हत्वात् 'संचारिणी-' इत्यादिपद्यवदत्र तच्छन्दे वीप्सा समुचितेत्याभाति ॥
बहुतरसमाधानसमाहितामपि समाधानमप्राप्तां मानिनीमवलोक्य निर्विष्णहृदयतया सुप्तं नायकम् 'सुप्तोऽयम् । अतःपरं किं विधेयम्' इति विह्वला नायिका वकि: · कृतकखाप मदीयश्वासध्वनिदत्तकर्ण किं तीत्रैः।
विध्यसि मां निःश्वासैः स्मरः शरैः शब्दवेधीव ॥ १५२ ॥ कृतकेति । कृत्रिमखाप । एवं च 'न शयानं बोधयेत्' इति निषेधोल्लङ्घनदोपानहत्वं वन्यते । मदीयश्वासध्वनिषु दत्तः कर्णो येन। एवं च त्वदीयावगणना. कारिण्या मम सम्यगिदं संतापजश्वासजातं जातमिति भावः । मां तीब्रदीर्घः । एवं च खापे कृतकत्वमावेद्यते। पक्षे तीक्ष्णैः । निःश्वासैः शब्दवेधी स्मर इव शरैः किं किमिति विध्यसि । एवं च मद्विहितावगणनासंजातसंतापजत्वदीयश्वासैः कथमयमवगणित इति मम दुःखमुत्पद्यते । श्वासेषु स्मरशरसमताप्रतिपादनेन समुत्पन्नमन्मथतीव्रवेदना विगलिताभिमानाहं संवृत्तास्मीति च व्यज्यते । यद्वा सपत्नीसविधे गन्तुकामं नायकं विज्ञाय नायिका वकि-मिथ्यासुप्त । मदीयश्वासध्वनिदत्तकर्ण। यदैवेयं खापं करिष्यति तदैव मया तत्र गन्तव्यमिति धियेति भावः । निःश्वासरित्यनेन मदीयनिद्रा विज्ञाय न मया सुप्तव्यमिति धीमत्त्वं ध्वन्यते । किमिति विघ्यसि । एवं च छलेन किमर्थ गन्तुमुद्यतोऽसि, एवमेव गच्छ, न मया निवार्यस इति खदुःखं व्यजयति । निःश्वासेषु स्मरशरसमताप्रतिपादनेन बहिःक्षतजनकत्वाभावेऽप्यन्तःक्षतविशेषजनकत्वमित्यावेद्यते । अथवा सपनीमुफ्भुज्या