________________
आर्यासप्तशती।
नायकप्रेषितदूतीं नायिका वति
एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।
हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः॥११८॥ एकमिति । हे दूति, एकं मम मनो यामीति वदति, न यामीत्यपरं हृदयं वदति । एवं च गन्तव्यं वा न गन्तव्यमिति संशयशालिन्यहमिति व्यज्यते । नायिकागमने संशयं श्रुत्वा सखी वक्ति हे सुन्दरि । एवं च नायिकासक्तिस्त्वय्युचितैवेति ध्वन्यते । हृतं खाधीनीकृतं कान्तस्य चित्तं यया तस्यास्तव हृदयद्वयमुचितम् । एवं च नायकचित्तस्य त्वयि निममत्वेन तवैतादृशमौदासीन्यं तच. तस्यान्यत्रानुरागित्वेऽवश्यं त्वया द्रुततरं तत्रागन्तव्यमिति व्यज्यते । अत्र सर्वत्र चित्तार्थकयत्किंचिदेकपदस्यैवादानमुचितमित्याभाति । कश्चिलिकवधूसङ्ग स्तौति
एरण्डपत्रशयना जनयन्ती खेदमलघुजघनतटा ।
धूलिपुटीव मिलन्ती मरज्वरं हरति हलिकवधूः ॥ ११९ । एरण्डेति । एरण्डपत्राणां शयनं यस्याः। खेदम् । अर्थात्रायकस्य । सुरतातिशयेनेत्यर्थः । जनयन्ती। महजघनतटा, मिलन्ती, हलिकस्य वधूवूल्याः पुटीव सरसंबन्धिज्वरं हरति । एरण्डपत्रान्तरिता, खेदमुत्पादयन्ती, स्थूलपुरोभागा, अङ्गसङ्गशालिनी, धूलिपोटली मदनज्वरशान्तिजनिकेति वैद्यकप्रसिद्धिः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेतैकारव्रज्या ।
ककारव्रज्या। इयं प्रतिवेश्यासक्केति कश्चिद्वक्ति
केलिनिलयं सखीमिव नयति नवोढां खयं न मां भजते ।
इत्थं गृहिणीमये स्तुवति प्रतिवेशिना हसितम् ॥ १५० ॥ केलीति । केलिसदनं नवोढाम् । एवं चेयमवश्यमनेन भोकव्येति ज्ञानववं धन्यते । सखीमिव । एवं च द्वेषशून्यत्वं व्यज्यते। प्रापयति खयं मां न भजते। इत्यं च गृहिणीमर्ये वैश्ये । 'अर्थः स्वामिवैश्ययोः' इत्यमरः । स्तुवति सति प्रतिवेशिना हसितम् । इयं च मदासक्त्या सपनीमेतस्मिन्संयोज्यातायातीति नानेन मूर्खेण हायत इति धियेति भावः ॥