________________
20
काव्यमाला।
यत्वं व्यज्यते। अक्षाणां मालामणीनां समुदायमिव विलङ्घमानावगणयन्ती। पक्ष उलयन्ती। अनुलिरिव तरला मेरुमिव मालाप्रान्तमणिमिव त्वां प्राप्य सुभग । एवं चैतादृशनायिकासचिर्न भाग्यं विनेति व्यज्यते । विश्राम्यति । मेरोरुल्लङ्घनं न कार्यमिति जापकसंप्रदायः॥ कश्चिद्याच्याखेदखिनो वक्तिएकः स एव जीवति खहृदयशून्योऽपि सहृदयो राहुः ।
यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥ ११५॥ एक इति । सकललधुताकारणम् , दुःखेन पूरयितुमशक्यम् । दुष्पूरत्वं लघुताकारणे हेतुः । उदरं यो न बिभर्ति स सहृदयविहीनोऽपि । खपदमनर्थकमिवाभाति । सहृदयो हृदयेन सहितो राहुरेवैको जीवति । एवं च ये खोदरदरीपूरणाय याच्यां कुर्वन्ति त एव मृता इति व्यज्यते ॥ कश्चिद्विदेशस्थो मनोरथं करोति
एकेन चूर्णकुन्तलमपरेण करेण चिबुकमुन्नमयन् ।
पश्यामि बाष्पधौतश्रुति नगरद्वारि तद्वदनम् ॥ ११६ ॥ एकेनेति । एकेन करेण चूर्णकुन्तलम् । 'अलकाचूर्णकुन्तलाः' इत्यमरः । अपरेण चिबुकमुन्नमयनगरद्वारदेशे। प्रेमातिशयेन तावदूरागमनमिति भावः । बाप्पैः । चिरकालदर्शनादिति भावः । धौता श्रुतिर्यत्र । तिर्यविचबुकोन्नमनादिति भावः । तस्या वदनं पश्यामि, इति काका एवं जगदीश, कदा करिष्यसीति व्यज्यते । 'विगलद्वारि' इति पाठे कुन्तलविशेषणम् ॥ नायिकासखी नायकं वक्ति
एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् ।
अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥ १४७ ॥ एकमिति । एकम् । नान्यदित्यर्थः । जीवनकारणम् । एवं च त्यागानहत्वं ध्वन्यते । चलखभावमपि। एवं चान्यत्र त्वदीयानुबन्धादिश्रवणेऽपि तस्यास्त्वप्यनुराग इति दुर्लभतरेयमेतादृशी नायिकेति व्यज्यते। तेन च त्वया न चाबल्यं विधेयमिति । निरन्तर तापयन्तम्। चबलखाभाव्यादिति भावः । नासेव सा बराकी । एवं च दीनत्वं व्यज्यते निश्वासतुल्यं त्वामन्तवहति । एवं च.बहिख. बाविषत्रिमबाटुवचनृविज्ञानचन्यत्वेऽप्यन्तःप्रेमालित्वमिति व्यज्यते ॥